Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 445

1875 Mantra
Devata- इन्द्रः Rishi- त्रसदस्युः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡र्च꣢न्त्य꣣र्कं꣢ म꣣रु꣡तः꣢ स्व꣣र्का꣡ आ स्तो꣢꣯भति श्रु꣣तो꣢꣫ युवा꣣ स꣡ इन्द्रः꣢꣯ ॥४४५॥

अ꣡र्च꣢꣯न्ति । अ꣣र्कं꣢ । म꣣रु꣡तः꣢ । स्व꣣र्काः꣢ । सु꣣ । अर्काः꣢ । आ । स्तो꣣भति । श्रुतः꣢ । यु꣡वा꣢꣯ । सः । इ꣡न्द्रः꣢꣯ ॥४४५॥

Mantra without Swara
अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥

अर्चन्ति । अर्कं । मरुतः । स्वर्काः । सु । अर्काः । आ । स्तोभति । श्रुतः । युवा । सः । इन्द्रः ॥४४५॥

Samveda - Mantra Number : 445
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(स्वर्काः) सुस्तुतयः सूच्चारितमन्त्राः वा। ऋच स्तुतौ, अर्च पूजायाम्। ‘अर्को मन्त्रो भवति यदनेनार्चन्ति’। निरु० ५।४। मरुतः ऋत्विजः। मरुतः इति ऋत्विङ्नाम। निघं० ३।१८। (अर्कम्) अर्चनीयम् इन्द्रं परमेश्वरम्। अर्को देवो भवति यदेनमर्चन्ति। निरु० ५।४। (अर्चन्ति) पूजयन्ति। (श्रुतः) वेदेषु प्रसिद्धः, आकर्णितो वा, (युवा) नित्यतरुणः, तरुण इव असीमबलः (सः) असौ (इन्द्रः) परमेश्वरः, तान् (आ स्तोभति) अवलम्बं प्रयच्छति। स्तुभ स्तम्भे भ्वादिः ॥९॥ अत्रानुप्रासालङ्कारः। किञ्च, परस्परोपकाररूपेण वस्तुना परिवृत्ति२रलङ्कारो व्यज्यते ॥९॥
Essence
ये मनुष्या वेदमन्त्रगानपुरस्सरं परमात्मानमाराध्नुवन्ति तान् सोऽक्षयावलम्बप्रदानेनानुगृह्णाति ॥९॥
Subject
अथ परमेश्वराराधनस्य फलमाह।
Footnote
१. साम० १११४। २. परिवृत्तिर्विनिमयः समन्यूनाधिकैर्भवेत्। सा० द० १०।८० इति तल्लक्षणात्। प्रकृते समेन विनिमयः।