Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 442

1875 Mantra
Devata- विश्वेदेवाः Rishi- त्रसदस्युः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
स꣢दा꣣ गा꣢वः꣣ शु꣡च꣢यो वि꣣श्व꣡धा꣢यसः꣣ स꣡दा꣢ दे꣣वा꣡ अ꣢रे꣣प꣡सः꣢ ॥४४२

स꣡दा꣢꣯ । गा꣡वः꣢꣯ । शु꣡च꣢꣯यः । वि꣣श्व꣡धा꣢यसः । वि꣣श्व꣢ । धा꣣यसः । स꣡दा꣢꣯ । दे꣣वाः꣢ । अ꣣रेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ ॥४४२॥

Mantra without Swara
सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः ॥४४२

सदा । गावः । शुचयः । विश्वधायसः । विश्व । धायसः । सदा । देवाः । अरेपसः । अ । रेपसः ॥४४२॥

Samveda - Mantra Number : 442
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सदा) सर्वदा (विश्वधायसः) विश्वं धापयन्ति रसं पाययन्ति यास्ताः (गावः१) धेनवः, सूर्यदीधितयः, वेदवाचो वा (शुचयः) पवित्राः पाविकाश्च भवन्ति। (सदा) सर्वदा (देवाः) दानदीपनद्योतनादिगुणवन्तः सदाचारिणो विद्वांसः (अरेपसः) निर्दोषाः पवित्राश्च भवन्ति ॥६॥
Essence
सर्वैः स्त्रीपुरुषैर्धेनुवत् सूर्यरश्मिवद् वेदवाग्वद् विद्वद्वच्च सदा निर्दोषैः पवित्रैश्च भाव्यम् ॥६॥
Subject
अथ विश्वेदेवा देवताः। तेषां पवित्रत्वं वर्णयति।
Footnote
१. गावः शुचयः शुद्धाः पवित्राः। विश्वधायसः विश्वं सर्वं धारयन्ति, सर्वस्य धारयित्र्यः क्षीरादिभिर्हविर्भिः। अथवा गावः आदित्यरश्मयः, अमेध्येऽपि पतमानाः शुद्धाः। अथवा गावः आपः भूमिगताः। अथवा गावः वाचः ऋग्यजुःसामलक्षणाः शुचयः विश्वधायसः विश्वस्य धारयित्र्यः। सदा देवाः अरेपसः अलेपकाः अपापाः। रेप इति पापनाम—इति वि०। गावः गन्तारः ये इन्द्रम् उपगच्छन्ति परिचरणादिभिः ते। विश्वधायसः बह्वन्नाः—इति भ०। गावः गन्तारः स्तोतारो वा—इति सा०।