Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 441

1875 Mantra
Devata- इन्द्रः Rishi- त्रसदस्युः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
शं꣢ प꣣दं꣢ म꣣घ꣡ꣳ र꣢यी꣣षि꣢णे꣣ न꣡ काम꣢꣯मव्र꣢तो꣡ हि꣢नोति꣣ न꣡ स्पृ꣢शद्र꣣यि꣢म् ॥४४१

श꣢म् । प꣣द꣢म् । म꣣घ꣢म् । र꣣यीषि꣡णे꣢ । न । का꣡म꣢꣯म् । अ꣣व्रतः꣢ । अ꣣ । व्रतः꣢ । हि꣣नोति । न꣢ । स्पृ꣣शत् । रयि꣢म् ॥४४१॥

Mantra without Swara
शं पदं मघꣳ रयीषिणे न काममव्रतो हिनोति न स्पृशद्रयिम् ॥४४१

शम् । पदम् । मघम् । रयीषिणे । न । कामम् । अव्रतः । अ । व्रतः । हिनोति । न । स्पृशत् । रयिम् ॥४४१॥

Samveda - Mantra Number : 441
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र मदीय अन्तरात्मन् ! (शम्) सुखम्, शान्तिः, (पदम्) उच्चपदम्, (मघम्) आध्यात्मिकं भौतिकं च धनम् (रयीषिणे) धनेच्छुकाय, धनादिप्राप्तिमहत्त्वाकाङ्क्षिणे एव भवति। (अव्रतः) व्रतरहितः अकर्मा च जनः (कामम्) उच्चाकाङ्क्षाम् (न हिनोति) न प्राप्नोति। हि गतौ वृद्धौ च। (न) नैव च (रयिम्) ऐश्वर्यम् (स्पृशत्) स्पृशति, प्राप्नोति। स्पृशतेर्लेटि रूपम् ॥५॥
Essence
धनं, सुखं, शान्तिं, नृपत्वसचिवत्वन्यायाधीशत्वाद्युच्चं पदं, मोक्षपदं च ये प्राप्तुमिच्छन्ति तैस्तदर्थं तीव्रां महत्त्वाकाङ्क्षां मनसि निधाय तत्प्राप्त्यर्थं महान् प्रयत्नोऽनुष्ठेयः ॥५॥
Subject
अथ धनादिकं कः प्राप्नोतीत्याह।