Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 440

1875 Mantra
Devata- इन्द्रः Rishi- त्रसदस्युः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡न꣢वस्ते꣣ र꣢थ꣣म꣡श्वा꣢य तक्षु꣣स्त्व꣢ष्टा꣣ व꣡ज्रं꣢ पुरुहूत द्यु꣣म꣡न्त꣢म् ॥४४०॥

अ꣡न꣢꣯वः । ते꣣ । र꣡थ꣢꣯म् । अ꣡श्वा꣢꣯य । त꣣क्षुः । त्व꣡ष्टा꣢꣯ । व꣡ज्र꣢꣯म् । पु꣣रुहूत । पुरु । हूत । द्युम꣡न्त꣢म् ॥४४०॥

Mantra without Swara
अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तम् ॥

अनवः । ते । रथम् । अश्वाय । तक्षुः । त्वष्टा । वज्रम् । पुरुहूत । पुरु । हूत । द्युमन्तम् ॥४४०॥

Samveda - Mantra Number : 440
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—जीवात्मपरः। हे (पुरुहूत) बहुभिः कीर्तितगुण जीवात्मन् ! (ते) तुभ्यम् (अनवः) प्राणाः। अन्यते प्राप्यते यैः साधनभूतैः ते अनवः प्राणाः। अन प्राणने, बाहुलकाद् औणादिकः उ प्रत्ययः। (अश्वाय२) आशुगमनाय (रथम्) देहरूपं यानम् (तक्षुः) तक्षन्ति, रचयन्ति। तक्षू तनूकरणे धातोर्लडर्थे लिट्। ततक्षुः इति प्राप्ते द्वित्वाभावश्छान्दसः। (त्वष्टा) जगच्छिल्पी परमेश्वरः (द्युमन्तम्) तेजोमयम् (वज्रम्) वाग्रूपम् आयुधम् तक्षति। वाग् घि वज्रः। ऐ० ब्रा० ४१। तेन यशोमयेन देहरथेन जीवनयात्रां निर्वहंस्त्वं वाग्वज्रेण पाखण्डिनो विखण्डय ॥४॥ अथ द्वितीयः—राजपरः। हे (पुरुहूत) बहुभिः प्रजाजनैः सत्कृत इन्द्र अखण्डैश्वर्य राजन् ! (ते) तुभ्यम् (अनवः) शिल्पिजनाः। अनवः इति मनुष्यनामसु पठितम्। निघं० २।३। (अश्वाय) सद्योगमनाय (रथम्) यात्रासाधनं, युद्धसाधनं च भूजलान्तरिक्षयानसमूहम् (तक्षुः) रचयन्तु। लोडर्थे लिट्। (त्वष्टा) शस्त्रास्त्रनिर्माता शिल्पी (द्युमन्तम्) दीप्तिमन्तम् (वज्रम्) शस्त्रास्त्रसमूहं तक्षतु रचयतु ॥ एवं रथशस्त्रास्त्रादिभिर्युद्धसाधनैर्युक्तस्त्वं शत्रून् पराजित्य प्रजां सुखय ॥४॥३ अत्र श्लेषालङ्कारः ॥४॥
Essence
जीवात्मा यथा शरीररथमधिष्ठाय वाग्वज्रेण कुतर्कान् खण्डयन् सत्यपक्षं रक्षति, तथैव राजा भूजलान्तरिक्षयानान्यधिष्ठाय वज्रेण शत्रूनुच्छिद्य राष्ट्रं रक्षतु ॥४॥
Subject
अथेन्द्रस्य रथवज्रतक्षणविषयमाह।
Footnote
१. एतं चतुर्थं मन्त्रं पूर्वार्द्धं विधाय तृतीयं मन्त्रं चोत्तरार्धं कृत्वा ऋग्वेदस्य ५।३१।४ मन्त्रो निष्पद्यते, यत्र ‘तक्षुस्’ इत्यस्य स्थाने ‘तक्षन्’ इति पाठः। अवस्युरात्रेयः ऋषिः, त्रिष्टुप् छन्दः। २. अश्वाय वाहनाय—इति सा०। ३. हे पुरुहूत बहुभिः स्तुत राजन् ! (अनवः) मनुष्याः (ते) तव (अश्वाय) सद्योगमनाय (रथम् तक्षन्) रचयन्तु, (त्वष्टा) सर्वतो विद्यया प्रदीप्तः (द्युमन्तम् वज्रम्) शस्त्रास्त्रसमूहं निपातयति इति ऋ० ५।३१।४ भाष्ये—द०।