Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 44

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
यो꣢꣫ विश्वा꣣ द꣡य꣢ते꣣ व꣢सु꣣ हो꣡ता꣢ म꣣न्द्रो꣡ जना꣢꣯नाम् । म꣢धो꣣र्न꣡ पात्रा꣢꣯ प्रथ꣣मा꣡न्य꣢स्मै꣣ प्र꣡ स्तोमा꣢꣯ यन्त्व꣣ग्न꣡ये꣢ ॥४४॥

यः꣢ । वि꣡श्वा꣢꣯ । द꣡य꣢꣯ते । व꣡सु꣢꣯ । हो꣡ता꣢꣯ । म꣣न्द्रः꣢ । ज꣡ना꣢꣯नाम् । म꣡धोः꣢꣯ । न । पा꣡त्रा꣢꣯ । प्र꣣थमा꣢नि꣢ । अ꣣स्मै । प्र꣢ । स्तो꣡माः꣢꣯ । य꣣न्तु । अग्न꣡ये꣢ ॥४४॥

Mantra without Swara
यो विश्वा दयते वसु होता मन्द्रो जनानाम् । मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥

यः । विश्वा । दयते । वसु । होता । मन्द्रः । जनानाम् । मधोः । न । पात्रा । प्रथमानि । अस्मै । प्र । स्तोमाः । यन्तु । अग्नये ॥४४॥

Samveda - Mantra Number : 44
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(होता) विविधवस्तूनां शुभगुणानां वा दाता, (जनानाम्) मनुष्याणाम् (मन्द्रः) आनन्दजनकः। (मन्दयति) मोदयतीति मन्द्रः। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु इति धातोः स्फायितञ्चिवञ्चि०’ उ० २।१३ इति रक्। (यः) परमेश्वरः (विश्वा) विश्वानि समस्तानि (वसु) वसूनि धनानि (दयते) ददाति। दय धातुर्दानाद्यनेककर्मा। निरु० ४।१७। (अस्मै) एतादृशाय (अग्नये) नायकाय परमेश्वराय (मधोः२) मधुनः। अत्र लिङ्गव्यत्ययः। (प्रथमानि) श्रेष्ठानि (पात्रा) पात्राणि (न) इव (स्तोमाः) मदीयानि स्तोत्राणि (प्र यन्तु)३ प्रकृष्टतया गच्छन्तु। विश्वा, वसु, पात्रा इति सर्वत्र शेश्छन्दसि बहुलम्।’ अ० ६।१।७० इति जसः शसो वा शेर्लोपः ॥१०॥ अत्रोपमालङ्कारः ॥१०॥
Essence
यथा गृहागताय विदुषेऽतिथये मधुदधिदुग्धादिपूर्णानि पात्राणि ससत्कारं समर्प्यन्ते, तथैव परमदयालवे परोपकारिणे परमात्मने भक्तिभावभरिताः स्तोमाः समर्पणीयाः ॥१०॥ अत्र परमात्मगुणवर्णनपूर्वकं ततः समृद्ध्यादियाचनादेतद्दशत्य- र्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरूह्या ॥ इति प्रथमे प्रपाठके पूर्वार्धे चतुर्थी दशतिः ॥ इति प्रथमेऽध्याये चतुर्थः खण्डः ॥
Subject
अथ परमात्मने स्तोमान् समर्पयितुमाह।