Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 439

1875 Mantra
Devata- इन्द्रः Rishi- त्रसदस्युः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ब्र꣣ह्मा꣢ण꣣ इ꣡न्द्रं꣢ म꣣ह꣡य꣢न्तो अ꣣र्कै꣡र꣢꣯वर्धय꣣न्न꣡ह꣢ये꣣ ह꣢न्त꣣वा꣡ उ꣢ ॥४३९॥

ब्र꣣ह्मा꣡णः꣢ । इ꣡न्द्र꣢꣯म् । म꣣ह꣡य꣢न्तः । अ꣣र्कैः꣢ । अ꣡व꣢꣯र्धयन् । अ꣡ह꣢꣯ये । हन्त꣣वै꣢ । उ꣣ ॥४३९॥

Mantra without Swara
ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥

ब्रह्माणः । इन्द्रम् । महयन्तः । अर्कैः । अवर्धयन् । अहये । हन्तवै । उ ॥४३९॥

Samveda - Mantra Number : 439
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ब्रह्माणः२) आस्तिकाः देशभक्ताश्च जनाः (अर्कैः) वेदमन्त्रैः। अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।४। (इन्द्रम्) विघ्नविदारकं परमेश्वरं राजानं वा (महयन्तः) पूजयन्तः सत्कुर्वन्तो वा। महयतिः अर्चनाकर्मा। निघं० ३।१४। मह पूजायाम्, चुरादिः। (अहये हन्तवै) अहिं सर्पवत् कुटिलगतिं विघ्नसमूहं पापं शत्रुं वा हन्तुम्। अहये इत्यत्र ‘क्रिययापि यमभिप्रैति स सम्प्रदानम्। वा०, अ० १।४।३२’ इति सम्प्रदानत्वाच्चतुर्थी। हन्तवै, हन्तेस्तुमर्थे तवै प्रत्ययः। ‘अन्तश्च तवै युगपत्। अ० ६।१।२००’ इति आद्यन्तौ युगपदुदात्तौ। (उ) खलु (अवर्द्धयन्) स्वहृदये राष्ट्रे च वर्द्धयन्ति ॥३॥३ अत्र अर्थश्लेषालङ्कारः ॥३॥
Essence
यथा परमेश्वरो योगमार्गे समागतान् विघ्नान्, अन्तःकरणे समाजे च प्राप्तप्रसरान् पापरूपाञ्छत्रून्, दुष्टांश्च हिनस्ति, तथैव नृपतिना राष्ट्रोन्नतये शत्रवो हिंसनीयाः ॥३॥
Subject
अथेन्द्रस्यार्चनसत्कारविषयमाह।
Footnote
१. ऋ० ५।३१।४ उत्तरार्धः। २. ब्रह्माणः मदीया ऋत्विजः—इति वि०। श्रुतशीलादिभिः परिवृढाः स्तोतारः—इति भ०। ब्रह्माणः ब्राह्मणाः—इति सा०। ३. (ब्रह्माणः) चतुर्वेदविदः (इन्द्रम्) अखण्डैश्वर्यं राजानम् (महयन्तः) पूजयन्तः (अर्कैः) सत्कारसाधनतमैर्विचारैर्वचनैः कर्मभिर्वा (अवर्धयन्) वर्धयन्ति इति ऋ० ५।३१।४ भाष्ये द०।