Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 438

1875 Mantra
Devata- इन्द्रः Rishi- त्रसदस्युः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ए꣣ष꣢ ब्र꣣ह्मा꣢꣫ य ऋ꣣त्वि꣢य꣣ इ꣢न्द्रो꣣ ना꣡म꣢ श्रु꣣तो꣢ गृ꣣णे꣢ ॥४३८॥

ए꣣षः꣢ । ब्र꣣ह्मा꣢ । यः । ऋ꣣त्वि꣡यः꣢ । इ꣡न्द्रः꣢꣯ । ना꣡म꣢꣯ । श्रु꣣तः꣢ । गृ꣣णे꣢ ॥४३८॥

Mantra without Swara
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥

एषः । ब्रह्मा । यः । ऋत्वियः । इन्द्रः । नाम । श्रुतः । गृणे ॥४३८॥

Samveda - Mantra Number : 438
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयं मयाऽनुभूयमानः परमेश्वरः (ब्रह्मा) ज्ञानगुणकर्मादिना परिवृढत्वात् ब्रह्मा वर्तते। ब्रह्मा परिवृढः श्रुततः, ब्रह्म परिवृढं सर्वतः। निरु० १।८। (यः ऋत्वियः२) यः सर्वदा प्राप्तकालः, ऋतौ ऋतौ उपास्यः इति यावत्। ऋतुः प्राप्तोऽस्य। तदस्य प्राप्तमित्यर्थे ‘छन्दसि घस्। अ० ५।१।१०६’ इत्यनेन घस् प्रत्ययः। यश्च (इन्द्रो नाम श्रुतः) इन्द्र इति नाम्ना प्रसिद्धः वर्वर्त्ति। तम् अहम् (गृणे) स्तौमि ॥२॥
Essence
परमेश्वरः सर्वतो वृद्धः, सर्वतो भद्रः सर्वऋतूपास्यश्च वर्तते ॥२॥
Subject
अथेन्द्रं परमात्मानं वर्णयति।
Footnote
१. साम० १७६८। २. ऋत्वियः ऋतुषु काले-काले प्रादुर्भवन्—इति भ०। ऋतौ वसन्तादिसमये भवः—इति सा०।