Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 437

1875 Mantra
Devata- इन्द्रः Rishi- त्रसदस्युः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
वि꣡श्व꣢तोदावन्वि꣣श्व꣡तो꣢ न꣣ आ꣡ भ꣢र꣣ यं꣢ त्वा꣣ श꣡वि꣢ष्ठ꣣मी꣡म꣢हे ॥४३७

वि꣡श्व꣢꣯तोदावन् । वि꣡श्व꣢꣯तः । दा꣣वन् । विश्व꣡तः꣢ । नः꣢ । आ꣢ । भ꣣र । य꣢म् । त्वा꣣ । श꣡वि꣢꣯ष्ठम् । ई꣡म꣢꣯हे ॥४३७॥

Mantra without Swara
विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे ॥४३७

विश्वतोदावन् । विश्वतः । दावन् । विश्वतः । नः । आ । भर । यम् । त्वा । शविष्ठम् । ईमहे ॥४३७॥

Samveda - Mantra Number : 437
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (विश्वतोदावन्) सर्वतो दानकर्तः इन्द्र परमात्मन् राजन् वा ! विश्वतस्पूर्वाद् ददातेः ‘आतो मनिन्क्वनिब्वनिपश्च। अ० ३।२।७४’ इति वनिप् प्रत्ययः। त्वम् (विश्वतः) सर्वतः (नः) अस्मभ्यम्, (आ भर) विद्याधनबलादिकम् आहर, (यम् शविष्ठम्) बलिष्ठम् (त्वा) त्वाम्, वयम् (ईमहे) याचामहे। ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९ ॥१॥ अत्र अर्थश्लेषः, ‘विश्वतो’ इत्यस्यावृत्तौ च लाटानुप्रासोऽलङ्कारः ॥१॥
Essence
यथा परमेश्वरोऽस्मभ्यं वेदज्ञानम् आत्मबलं देहबलं सूर्यवायुपृथिवीहिरण्यादिकं धनं च प्रयच्छति तथैव नृपतिरपि राष्ट्रे निरक्षरेभ्यो विद्यां निर्बलेभ्यो बलं निर्धनेभ्यश्च धनं प्रदद्यात् ॥१॥
Subject
तत्राद्ये मन्त्रे इन्द्रो धनादिकं याच्यते।