Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 436

1875 Mantra
Devata- पवमानः सोमः Rishi- ऋण0त्रसदस्यू Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प꣡व꣢स्व सोम द्यु꣣म्नी꣡ सु꣢धा꣣रो꣢ म꣣हा꣡ꣳ अवी꣢꣯ना꣣म꣡नु꣢पू꣣र्व्यः꣢ ॥४३६॥

प꣡व꣢꣯स्व । सो꣣म । द्युम्नी꣢ । सु꣣धारः꣢ । सु꣣ । धारः꣢ । म꣣हा꣢न् । अ꣡वी꣢꣯नाम् । अ꣡नु꣢꣯ । पू꣣र्व्यः꣢ ॥४३६॥

Mantra without Swara
पवस्व सोम द्युम्नी सुधारो महाꣳ अवीनामनुपूर्व्यः ॥

पवस्व । सोम । द्युम्नी । सुधारः । सु । धारः । महान् । अवीनाम् । अनु । पूर्व्यः ॥४३६॥

Samveda - Mantra Number : 436
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) आनन्दरसागार परमात्मन् ! (द्युम्नी) यशस्वी। ‘द्युम्नं द्योततेः यशो वाऽन्नं वा’ इति यास्कः। निरु० ५।५। (अवीनां महान्) समवेतानां वह्नीनां पृथिवीनामपि विशालतरः। इयं (पृथिवी) वा अविः, इयं हीमाः सर्वाः प्रजा अवति। श० ६।१।२।३३। (पूर्व्यः) पूर्वस्मिन्नपि काले भवः, सनातनः इत्यर्थः, त्वम् (सुधारः) शोभनाभिः आनन्दरसधाराभिः सहितः (पवस्य) मम हृदये परिस्रव ॥१०॥
Essence
समाहितेन मनसा सततमुपासितो रसनिधिः परमेश्वर आनन्दधाराभिर्हृदये वर्षति ॥१०॥ अत्र सोमनाम्ना परमात्मनो रसमयत्वमुपवर्ण्य तत आनन्दरसस्य पवित्रतायाश्च याचनात्, अग्निनाम्ना तस्य तेजोमयत्ववर्णनाद्, मरुन्नाम्ना प्राणादीनां च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति विज्ञेयम् ॥ इति पञ्चमे प्रपाठके प्रथमार्द्धे पञ्चमी दशतिः ॥ इति प्रथमोऽर्द्धः ॥ इति चतुर्थेऽध्याये नवमः खण्डः ॥
Subject
अथ पवमानः सोमो देवता। सोमः परमात्मा प्रार्थ्यते।
Footnote
१. ऋ० ९।१०९।७, ‘महाँ अवीनामन्’ इत्यत्र ‘महामवीनामनु’ इति पाठः।