Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 435

1875 Mantra
Devata- वाजिनः Rishi- ऋण0त्रसदस्यू Chhand- पुरउष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣣वि꣡र्म꣢र्या꣣ आ꣡ वाजं꣢꣯ वा꣣जि꣡नो꣢ अग्मन् दे꣣व꣡स्य꣢ सवि꣣तुः꣢ स꣣व꣢म् । स्व꣣र्गा꣡ꣳ अ꣢र्वन्तो जयत ॥४३५

आ꣣विः꣢ । आ꣣ । विः꣢ । म꣣र्याः । आ꣢ । वा꣡ज꣢꣯म् । वा꣣जि꣡नः꣢ । अ꣣ग्मन् । देव꣡स्य꣢ । स꣣वितुः꣢ । स꣣व꣢म् । स्व꣣र्गा꣢न् । स्वः꣣ । गा꣢न् । अ꣣र्वन्तः । जयत ॥४३५॥

Mantra without Swara
आविर्मर्या आ वाजं वाजिनो अग्मन् देवस्य सवितुः सवम् । स्वर्गाꣳ अर्वन्तो जयत ॥४३५

आविः । आ । विः । मर्याः । आ । वाजम् । वाजिनः । अग्मन् । देवस्य । सवितुः । सवम् । स्वर्गान् । स्वः । गान् । अर्वन्तः । जयत ॥४३५॥

Samveda - Mantra Number : 435
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वाजिनः) ज्ञानवन्तो जनाः (वाजम्) बलम्, (देवस्य) प्रकाशकस्य (सवितुः) प्रेरकस्य परमात्मनः (सवम्) प्रेरणां च। षू प्रेरणे, ‘ॠदोरप् अ० ३।३।५७’ इत्यप्। (आ अग्मन्) आप्नुवन्ति। हे (मर्याः) मनुष्याः ! यूयमपि (आविः) स्वात्मनि बलं परमात्मनः प्रेरणां च आविष्कृणुत। हे (अर्वन्तः) उद्योगिनो जनाः ! ऋ गतिप्रापणयोः धातोर्वनिप्प्रत्यये रूपम्। यूयम् (स्वर्गान्) सुखमयान् ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासलोकान् मुक्तिलोकांश्च (जयत) अधिगच्छत ॥९॥ अत्र ‘अर्वन्तः’ इति शब्दप्रयोगाद् यथा अश्वाः संग्रामं जयन्तीत्युपमालङ्कारो ध्वन्यते। ‘वाजं, वाजि’, ‘सवि, सव’ इत्यत्र छेकानुप्रासः, वकारस्य चासकृदावृत्तौ वृत्त्यनुप्रासः ॥९॥
Essence
मनुष्यैरात्मबलं संचित्य परमात्मनः सकाशात् सत्प्रेरणां च गृहीत्वा शुभकर्माणि कृत्वा लौकिक-पारलौकिकसुखं प्राप्तव्यम् ॥९॥
Subject
अथ वाजिनां स्तुतिः।