Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 434

1875 Mantra
Devata- अग्निः Rishi- वामदेवो गौतमः Chhand- पदपङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣢ग्ने꣣ त꣢म꣣द्या꣢श्वं꣣ न꣢꣫ स्तोमैः꣣ क्र꣢तुं꣣ न꣢ भ꣣द्र꣡ꣳ हृ꣢दि꣣स्पृ꣡श꣢म् । ऋ꣣ध्या꣡मा꣢ त꣣ ओ꣡हैः꣣ ॥४३४॥

अ꣡ग्ने꣢꣯ । तम् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । अ꣡श्व꣢꣯म् । न । स्तो꣡मैः꣢꣯ । क्र꣡तु꣢꣯म् । न । भ꣣द्र꣢म् । हृ꣣दिस्पृ꣡शम् । हृ꣣दि । स्पृ꣡श꣢꣯म् । ऋ꣣ध्या꣡म꣢ । ते꣣ । ओ꣡हैः꣢꣯ ॥४३४॥

Mantra without Swara
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् । ऋध्यामा त ओहैः ॥

अग्ने । तम् । अद्य । अ । द्य । अश्वम् । न । स्तोमैः । क्रतुम् । न । भद्रम् । हृदिस्पृशम् । हृदि । स्पृशम् । ऋध्याम । ते । ओहैः ॥४३४॥

Samveda - Mantra Number : 434
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रणीः प्रकाशक परमेश्वर ! (अश्वं न) तुरगम् इव, (क्रतुं न) कर्तारं शिल्पिनम् इव च। करोतीति क्रतुः। ‘कृञः कतुः उ० १।७६’ इति कृञ् धातोः कतुः प्रत्ययः। (भद्रम्) कल्याणकरम्, (हृदिस्पृशम्) हृदयस्पर्शिनम्। हृदि स्पृशतीति हृदिस्पृक् ‘हृद्युभ्यां ङेः अ० ६।३।९ वा०’ इति सप्तम्या अलुक्। (तम्) जगत्प्रसिद्धं त्वाम् (अद्य) अस्मिन् दिने (ते ओहैः२) अस्मदभिमुखं त्वद्वाहकैः। वह प्रापणे धातोः छान्दसे सम्प्रसारणे गुणे रूपम्। (स्तोमैः) स्तोत्रैः (ऋध्याम्) परिचरेम। ऋध्नोति ऋणद्धि इति परिचरणकर्माणौ निघं० ३।५। संहितायाम् ‘अन्येभ्योऽपि दृश्यते अ० ६।३।१३७’ इति दीर्घः ॥८॥३ अत्रोपमालङ्कारः ॥८॥
Essence
यथाश्वो देशान्तरगमने साधनतां प्राप्य शिल्पी च विविधान् यन्त्रकलादीन्निर्मायास्माकं हितं साध्नोति, तथैव परमेश्वरोऽस्मानुत्कर्षं नीत्वास्माकं कृते सूर्यचन्द्रवायुफलमूलादीनि विविधवस्तूनि च निर्माय हितकर्ता जायते ॥८॥
Subject
अथाग्निर्देवता। कीदृशं परमात्मानं वयं परिचरेमेत्याह।
Footnote
१. ऋ० ४।१०।१; य० १५।४४; १७।७७ ऋषिः परमेष्ठी। साम० १७७७। २. ओहैः वाहकैः इति स्तोमविशेषणम्—इति भ०। ‘विद्यासुखप्रापकैः’ इति य० १५।४४ भाष्ये—द०। ३. दयानन्दर्षिर्मन्त्रमेतम् ऋ० ४।१०।१ भाष्ये, य० १५।४४ भाष्ये च विद्वद्विषये, य० १७।७७ भाष्ये चाध्यापकाध्येतृविषये व्याख्यातवान्।