Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 433

1875 Mantra
Devata- मरुतः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
क꣢ ईं꣣꣬ व्य꣢꣯क्ता꣣ न꣢रः꣣ स꣡नी꣢डा रु꣣द्र꣢स्य꣣ म꣢र्या꣣ अ꣢था꣣ स्व꣡श्वाः꣢ ॥४३३॥

के꣢ । ई꣣म् । व्य꣡क्ता꣢ । वि । अ꣣क्ताः । न꣡रः꣢꣯ । स꣡नी꣢꣯डाः । स । नी꣣डाः । रुद्र꣡स्य꣢ । म꣡र्याः꣢꣯ । अ꣡थ꣢꣯ । स्वश्वाः꣢꣯ । सु꣣ । अ꣡श्वाः꣢꣯ ॥४३३॥

Mantra without Swara
क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथा स्वश्वाः ॥

के । ईम् । व्यक्ता । वि । अक्ताः । नरः । सनीडाः । स । नीडाः । रुद्रस्य । मर्याः । अथ । स्वश्वाः । सु । अश्वाः ॥४३३॥

Samveda - Mantra Number : 433
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(के ईम्) के इमे (व्यक्ताः) प्रकाशमानाः (नरः) नेतारः (सनीडाः) समानाश्रयाः (रुद्रस्य मर्याः) रुद्रस्य पुत्रत्वेनोच्यमानाः (अथ) अपि च (स्वश्वाः) शोभनाश्वाः सन्तीति प्रश्नः। अथोत्तरम्, (प्राणपक्षे) इमे (व्यक्ताः) विशेषेण गतिमन्तः। वि पूर्वः अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु। (नरः) शरीरस्य नेतारः, (सनीडाः) देहरूपसमानगृहवासिनः, (रुद्रस्य मर्याः) रुद्रनाम्नो मुख्यप्राणस्य सहचराः (स्वश्वाः) इन्द्रियरूपशोभनाश्वाः, मरुतः प्राणापानव्यानोदानसमानाः सन्तीति ॥अथ सैनिकपक्षे—इमे (व्यक्ताः) परिचायकचिह्नैः२ अंसेषु ऋष्टिभिः, पत्सु खादिभिः, वक्षःसु रुक्मैः, गभस्त्योः विद्युद्भिः, शीर्षसु शिप्रैः व्यक्तिं भजमानाः, (सनीडाः) समाने राष्ट्ररूपे नीडे निवसन्तः (रुद्रस्य मर्याः) शत्रुरोदकस्य सेनापतेः मनुष्याः (स्वश्वाः) शोभनेषु तुरङ्गमेष्वारूढाः, यद्वा शोभनानश्वान् अग्निविद्युदादीन् युद्धरथे योक्तारः, मरुतः राष्ट्रस्य वीराः सैनिकाः सन्तीति ॥७॥ अत्र प्रश्न एव उत्तरस्य समावेशाद् गूढोत्तररूपः प्रहेलिकाङ्कारः ॥७॥
Essence
यथा देहरूपे गृहे व्यवस्थापूर्वकं विभज्य विभिन्नान्यङ्गान्याश्रयन्तः प्राणाः देहं रक्षन्ति, तथैव राष्ट्रे निवसन्तो वीराः सैनिकाः राष्ट्रं रक्षन्तीति हेतोर्देहे प्राणा राष्ट्रे च सैनिका उत्तमखाद्यपेयादिभिः सत्करणीयाः ॥७॥
Subject
अथ मरुतो देवताः। प्राणानां योद्धॄणां च विषये प्रश्नपूर्वकमाह।
Footnote
१. ऋ० ७।५६।१। अंसेषु व ऋष्टयः पत्सु खादयो वक्षःसु रुक्मा मरुतो रथे शुभः। अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥ ऋ० ५।५४।११ इत्यत्र वर्णितैः परिचायकचिह्नैरित्यर्थः।