Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 432

1875 Mantra
Devata- पवमानः सोमः Rishi- ऋण0त्रसदस्यू Chhand- त्रिपदा अनुष्टुप्पिपीलिकामध्या Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣢नु꣣ हि꣡ त्वा꣢ सु꣣त꣡ꣳ सो꣢म꣣ म꣡दा꣢मसि म꣣हे꣡ स꣢मर्य꣣रा꣡ज्ये꣢ । वा꣡जा꣢ꣳ अ꣣भि꣡ प꣢वमान꣣ प्र꣡ गा꣢हसे ॥४३२॥

अ꣡नु꣢꣯ । हि । त्वा꣣ । सुत꣢म् । सो꣣म । म꣡दा꣢꣯मसि । म꣣हे꣢ । स꣣मर्यरा꣡ज्ये꣢ । स꣣मर्य । रा꣡ज्ये꣢꣯ । वा꣡जा꣢꣯न् । अ꣣भि꣢ । प꣣वमान । प्र꣢ । गा꣣हसे ॥४३२॥

Mantra without Swara
अनु हि त्वा सुतꣳ सोम मदामसि महे समर्यराज्ये । वाजाꣳ अभि पवमान प्र गाहसे ॥

अनु । हि । त्वा । सुतम् । सोम । मदामसि । महे । समर्यराज्ये । समर्य । राज्ये । वाजान् । अभि । पवमान । प्र । गाहसे ॥४३२॥

Samveda - Mantra Number : 432
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) परमात्मन् जीवात्मन् राजन् वा ! (सुतम्) अभिषिक्तम् (त्वा) त्वाम् (अनु) अनुगम्य (महे) महति (समर्यराज्ये) समर्याणां देवासुरसमरे कुशलानां देवभावानां क्षत्रिययोद्धॄणां वा राज्ये। समर प्रातिपदिकात् कुशलार्थे यत्। वयम् (मदामसि हि) निश्चयेन मदामः आनन्दमुपलभामहे। अत्र हि-योगान्निघाताभावः। हे (पवमान) पवित्रकर्तः देव ! त्वम् (वाजान् अभि) बलानि विज्ञानानि ऐश्वर्याणि वा अभिप्रापयितुम् (प्र गाहसे) अस्मान् प्रकर्षेण आलोडयसि, आलोड्य क्रियाशीलान् करोषीति भावः ॥६॥ अत्र अर्थश्लेषालङ्कारः ॥६॥
Essence
परमात्मानं जीवात्मानं वीरं मनुष्यं वा राजपदेऽभिषिच्य संग्रामकुशलानां वीरभावानां वीरजनानां च राज्ये निवसन्तो वयं देवासुरसंग्रामे विजयमुत्कर्षं च प्राप्नुयाम ॥६॥
Subject
अथ सोमनाम्ना परमात्मानं जीवात्मानं राजानं च सम्बोधयति।
Footnote
१. ऋ० ९।११०।२; साम० १३६६।