Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 430

1875 Mantra
Devata- पवमानः सोमः Rishi- ऋण0त्रसदस्यू Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प꣡व꣢स्व सोम म꣣हे꣢꣫ दक्षा꣣या꣢श्वो꣣ न꣢ नि꣣क्तो꣢ वा꣣जी꣡ धना꣢य ॥४३०॥

प꣡व꣢꣯स्व । सो꣣म । महे꣢ । द꣡क्षा꣢꣯य । अ꣡श्वः꣢꣯ । न । नि꣣क्तः꣢ । वा꣣जी꣢ । ध꣡ना꣢꣯य ॥४३०॥

Mantra without Swara
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥

पवस्व । सोम । महे । दक्षाय । अश्वः । न । निक्तः । वाजी । धनाय ॥४३०॥

Samveda - Mantra Number : 430
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) रसागार परमेश्वर राजन् वा ! (अश्वः२ न) अग्निरिव, पर्जन्य इव, सूर्य इव वा (निक्तः) शुद्धः, शुद्धगुणकर्मस्वभावः। णिजिर् शौचपोषणयोः, भावे क्तः। (वाजी) बलवांश्च त्वम् (महे) महते (दक्षाय) बलाय, (धनाय) ऐश्वर्याय च (पवस्व) अस्मान् पुनीहि ॥४॥ अत्रोपमालङ्कारोऽर्थश्लेषश्च ॥४॥
Essence
परमेश्वर इव नृपतिरपि स्वयं शुद्धाचारः सन् सर्वेषामाचरणं पवित्रं कुर्यात्। तदेव बलं धनञ्च सर्वोपकारकं जायते यत् पवित्रतापूर्वकं पवित्रसाधनैश्च समर्जितं भवति ॥४॥
Subject
अथ पुनः परमेश्वरं राजानं च प्रार्थयते।
Footnote
१. ऋ० ९।१०९।१०, ‘महे’ इत्यत्र ‘क्रत्वे’ इति पाठः। साम० १३३२। २. वेदेऽग्निः पर्जन्यः सूर्यश्च अश्वनाम्ना व्यपदिष्टाः। यथा, ऋ० १०।१८८।१, ५।८३।६, ७।७७।३।