Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 43

1875 Mantra
Devata- अग्निः Rishi- भर्गः प्रागाथः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
आ꣡ नो꣢ अग्ने वयो꣣वृ꣡ध꣢ꣳ र꣣यिं꣡ पा꣢वक꣣ श꣡ꣳस्य꣢म् । रा꣡स्वा꣢ च न उपमाते पु꣣रु꣢स्पृह꣣ꣳ सु꣡नी꣢ती꣣ सु꣡य꣢शस्तरम् ॥४३॥

आ꣢ । नः꣣ । अग्ने । वयोवृ꣡धम्꣢ । वयः । वृ꣡ध꣢꣯म् । र꣣यि꣢म् । पा꣣वक । शँ꣡स्य꣢꣯म् । रा꣡स्वा꣢꣯ । च꣣ । नः । उपमाते । उप । माते । पुरुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । सु꣡नी꣢꣯ती । सु । नी꣣ती । सु꣡य꣢꣯शस्तरम् । सु । य꣣शस्तरम् ॥४३॥

Mantra without Swara
आ नो अग्ने वयोवृधꣳ रयिं पावक शꣳस्यम् । रास्वा च न उपमाते पुरुस्पृहꣳ सुनीती सुयशस्तरम् ॥

आ । नः । अग्ने । वयोवृधम् । वयः । वृधम् । रयिम् । पावक । शँस्यम् । रास्वा । च । नः । उपमाते । उप । माते । पुरुस्पृहम् । पुरु । स्पृहम् । सुनीती । सु । नीती । सुयशस्तरम् । सु । यशस्तरम् ॥४३॥

Samveda - Mantra Number : 43
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पावक) चित्तशोधक, पतितपावन (अग्ने) सन्मार्गदर्शक परमात्मन् ! त्वम् (वयोवृधम्) आयुष्यवर्द्धकम्, (शंस्यम्) प्रशंसनीयम्, (रयिम्) धनम् (नः) अस्मभ्यम् (आ) आनय। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। आनीय च हे (उपमाते२) उपमातिः उपमानम्, उपमानभूत, सर्वोपमायोग्य परमात्मन् ! (पुरुस्पृहम्) बहुस्पृहणीयं, बहुभिः स्पृहणीयं वा। पुरु इति बहुनाम। निघं० ३।१। (सुयशस्तरम्) अतिशयकीर्तिजनकम् तं (रयिं) धनम् (सुनीती) सुनीत्या, सन्मार्गेण। तृतीयैकवचने सुपां सुलुक्पूर्वसवर्ण०’ अ० ७।१।३९ इति पूर्वपरयोः पूर्वसवर्णदीर्घः। (नः) अस्मभ्यम् (रास्व च) प्रदेहि अपि। रा दाने। संहितायां द्व्यचोऽतस्तिङः।’ अ० ६।३।१३५ इति दीर्घः ॥९॥
Essence
परमेश्वरस्य कृपया स्वपुरुषार्थेन च सन्मार्गमनुसरन्तो वयं प्रचुरं रजतसुवर्णपृथिवीराज्यादिकं भौतिकं, विद्याविनययोगसिद्धिमोक्षा- दिकम् आध्यात्मिकं च धनं संचिनुयाम, यत् पुष्कलं धनमस्माकमायुर्वर्द्धकं धवलकीर्तिकरं च स्यात् ॥९॥
Subject
अथ परमेश्वरोऽस्मभ्यं कीदृशं धनं दद्यादित्याह।
Footnote
१. ऋ० ८।६०।११, ऋषिः भर्गः प्रागाथः। २. उपमाते उपमानभूत विश्वस्व—इति भ०। उपमाता निर्माता, तस्य सम्बोधनं हे उपमाते स्रष्टः इत्यर्थः—इति वि०। उप अस्मत्समीपे माति धनम् इत्युपमातिः—इति सा०।