Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 428

1875 Mantra
Devata- पवमानः सोमः Rishi- ऋण0त्रसदस्यू Chhand- त्रिपदा अनुष्टुप्पिपीलिकामध्या Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प꣢र्यू꣣ षु꣡ प्र ध꣢꣯न्व꣣ वा꣡ज꣢सातये꣣ प꣡रि꣢ वृ꣣त्रा꣡णि꣢ स꣣क्ष꣡णिः꣢ । द्वि꣣ष꣢स्त꣣र꣡ध्या꣢ ऋण꣣या꣡ न꣢ ईरसे ॥४२८॥

प꣡रि꣢꣯ । उ꣣ । सु꣢ । प्र । ध꣣न्व । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । प꣡रि꣢꣯ । वृ꣣त्रा꣡णि꣢ । स꣣क्ष꣡णिः꣢ । स꣣ । क्ष꣡णिः꣢꣯ । द्वि꣣षः꣢ । त꣣र꣡ध्यै꣢ । ऋ꣣णयाः꣢ । ऋ꣣ण । याः꣢ । नः꣢ । ईरसे ॥४२८॥

Mantra without Swara
पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तरध्या ऋणया न ईरसे ॥

परि । उ । सु । प्र । धन्व । वाजसातये । वाज । सातये । परि । वृत्राणि । सक्षणिः । स । क्षणिः । द्विषः । तरध्यै । ऋणयाः । ऋण । याः । नः । ईरसे ॥४२८॥

Samveda - Mantra Number : 428
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) मदीय अन्तरात्मन् वीरपुरुष वा ! त्वम् (वाजसातये२) संग्रामाय, शत्रुभिः सह योद्धुमित्यर्थः। वाजसातिरिति संग्रामनाम। निघं० २।१७। वाजानां बलानां धनानां वा सातिः प्राप्तिर्यस्मिन् स वाजसातिः संग्रामः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (उ सु) सम्यक् (परि प्र धन्व) परि प्रयाहि, परितः प्रयाणं कुरु। (सक्षणिः३) क्षणिः हिंसा क्षणोतेः, तया सहितः सक्षणिः, हिंसकः त्वम् (वृत्राणि) आवरकाणि पापानि (परि) परिधन्व सर्वतः आक्रमस्व। (ऋणयाः४) ऋणानां यापयिता त्वम्। ऋणोपपदात् ण्यर्थगर्भात् या धातोः, क्विपि रूपम्। (द्विषः) लोभादीन् द्वेष्टॄन् (तरध्यै) तर्तुम्। तरतेः ‘तुमर्थे सेसेनसे अ० ३।४।९’ इति अध्यै प्रत्ययः। (नः) अस्मान् (ईरसे) प्रेरय। ईर गतौ कम्पने च धातोर्लेटि अडागमे रूपम् ॥२॥
Essence
मनुष्यैर्लोभवृत्तिं परित्यज्य ऋणानि समये प्रतियातनीयानि वीरतया शत्रवश्च पराजेतव्याः ॥२॥
Subject
अथ स्वान्तरात्मा वीरपुरुषश्च वीरकर्मकरणाय प्रोत्साह्यते।
Footnote
१. ऋ० ९।११०।१ ‘ईरसे’ इत्यत्र ‘ईयसे’ इति पाठः। साम० १३६४। २. वाजसातये अस्मभ्यमन्नदानायैव परिप्रधन्व परितः प्रगच्छ। यद्वा अन्नलाभाय संग्रामं संग्रामं प्रगच्छ—इति सा०। ३. अभिभावुकः—इति भ०। सहनशीलः—इति सा०। षहतेरभिभवार्थात् तद्व्युत्पत्तिस्तयोरभिमता। अस्माभिस्तु ‘सक्षणिः’ इति पदकारमनुसृत्य व्याख्यातम्। ४. यत्तु सत्यव्रतसामश्रमिण आहुः ‘‘ऋणया’ इति तु ‘सुपां सुलुगित्यादिना’ सुपोऽयाचि साधितुं बहु सुकरं यथा कौमुद्यां दर्शितं च स्वप्नयेति’’, तन्न सङ्गच्छते, पदपाठे ‘ऋणयाः’ इति सविसर्गस्य दर्शनात्।