Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 426

1875 Mantra
Devata- विश्वेदेवाः Rishi- अंहोमुग्वामदेव्यः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
न꣢꣫ तमꣳहो꣣ न꣡ दु꣢रि꣣तं꣡ देवा꣢꣯सो अष्ट꣣ म꣡र्त्य꣢म् । स꣣जो꣡ष꣢सो꣣ य꣡म꣢र्य꣣मा꣢ मि꣣त्रो꣡ नय꣢꣯ति꣣ व꣡रु꣢णो꣣ अ꣢ति꣣ द्वि꣡षः꣢ ॥४२६॥

न꣢ । तम् । अँ꣡हः꣢꣯ । न । दु꣣रित꣢म् । दुः꣣ । इत꣢म् । दे꣡वा꣢꣯सः । अ꣣ष्ट । म꣡र्त्य꣢꣯म् । स꣣जो꣡ष꣢सः । स꣣ । जो꣡ष꣢꣯सः । यम् । अ꣡र्यमा꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न꣡य꣢꣯ति । व꣡रु꣢꣯णः । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ ॥४२६॥

Mantra without Swara
न तमꣳहो न दुरितं देवासो अष्ट मर्त्यम् । सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः ॥

न । तम् । अँहः । न । दुरितम् । दुः । इतम् । देवासः । अष्ट । मर्त्यम् । सजोषसः । स । जोषसः । यम् । अर्यमा । मित्रः । मि । त्रः । नयति । वरुणः । अति । द्विषः ॥४२६॥

Samveda - Mantra Number : 426
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देवासः) विद्वज्जनाः ! (तं मर्त्यम्) तं जनम् (न अंहः) अपराधः, (न दुरितम्) न पापम् (अष्ट) अश्नुते व्याप्नोति। आष्ट इति व्याप्तिकर्मसु पठितम्। निघं० २।१८ अशू व्याप्तौ संघाते च इति धातोः लडर्थे लुङि अनिट्पक्षे रूपम्, आडभावश्छान्दसः। (यम्) जनम् (सजोषसः) सप्रीतयः, परस्परं समञ्जसाः (अर्यमा) मनः, आदित्यः, न्यायाधीशो वा, (मित्रः) प्राणः वायुः, सुहृद् वा (वरुणः) आत्मा, चन्द्रः, राजा वा (द्विषः) विपत्तेः, विघ्नसमूहात्, शत्रुसंघाद् वा (अति नयति) अति नयन्ति, पारयन्ति। अत्र वचनव्यत्ययः, ऋग्वेदे तु ‘नयन्ति’ इत्येव पाठः ॥८॥
Essence
शरीरे, जडात्मके जगति, समाजे, राष्ट्रे च क्रमशः ये मनःप्राणादयो, ये सूर्यादयो, ये सन्मित्रादयो, ये च नृपत्यमात्यादयः प्रधानभूताः सन्ति तेषां रक्षणं प्राप्य मनुष्याः पापानि शत्रूंश्च पराजेतुं शक्नुवन्ति ॥८॥ अत्रेन्द्रस्य तत्सम्बद्धानाम् अग्न्युषःसोममित्रवरुणार्यम्णां च गुणकर्मवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति बोध्यम् ॥ इति पञ्चमे प्रपाठके प्रथमार्द्धे चतुर्थी दशतिः ॥ इति चतुर्थेऽध्यायेऽष्टमः खण्डः ॥
Subject
अथ विश्वेदेवाः देवताः। मित्रवरुणार्यम्णामनुग्रहस्य फलमाह।
Footnote
१. ऋ० १०।१२६।१, ऋषिः कुल्मलबर्हिषः शैलूषिः अंहोभुग् वा वामदेव्यः। ‘नयति’ इत्यत्र ‘नयन्ति’ इति पाठः।