Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 425

1875 Mantra
Devata- अग्निः Rishi- वसुश्रुत आत्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣ग्निं꣡ तं म꣢꣯न्ये꣣ यो꣢꣫ वसु꣣र꣢स्तं꣣ यं꣡ यन्ति꣢꣯ धे꣣न꣡वः꣢ । अ꣢स्त꣣म꣡र्व꣢न्त आ꣣श꣢꣫वोऽस्तं꣣ नि꣡त्या꣣सो वा꣣जि꣢न꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥४२५॥

अ꣣ग्नि꣢म् । तम् । म꣣न्ये । यः꣢ । व꣡सुः꣢꣯ । अ꣡स्त꣢꣯म् । यम् । य꣡न्ति꣢꣯ । धे꣣न꣡वः꣢ । अ꣡स्त꣢꣯म् । अ꣡र्व꣢꣯न्तः । आ꣣श꣡वः꣢ । अ꣡स्त꣣म् । नि꣡त्या꣢꣯सः । वा꣣जि꣡नः꣢ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥४२५॥

Mantra without Swara
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषꣳ स्तोतृभ्य आ भर ॥

अग्निम् । तम् । मन्ये । यः । वसुः । अस्तम् । यम् । यन्ति । धेनवः । अस्तम् । अर्वन्तः । आशवः । अस्तम् । नित्यासः । वाजिनः । इषम् । स्तोतृभ्यः । आ । भर ॥४२५॥

Samveda - Mantra Number : 425
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् (तम् अग्निम्) तम् अग्रनायकम् अग्निवत् प्रकाशमानं प्रकाशकं च परमेश्वरम् (मन्ये) अर्चामि। मन्यते अर्चतिकर्मा। निघं० ३।१४। (यः वसुः) सर्वेषां निवासप्रदो विद्यते, (अस्तम्) गृहरूपम् (यम् धेनवः) वाचः। धेनुरिति वाङ्नाम। निघं० १।११। (यन्ति) शक्तिप्राप्त्यर्थं गच्छन्ति। (अस्तम्) गृहरूपं यम् (आशवः) आशुगामिनः (अर्वन्तः) प्राणाः, शक्तिप्राप्त्यर्थं गच्छन्ति। (अस्तम्) गृहरूपं यम् (नित्यासः) नित्याः अनाद्यनन्ताः (वाजिनः) बलवन्तः आत्मानः, शक्तिप्राप्त्यर्थं यन्ति। हे अग्ने परमेश्वर ! त्वम् (स्तोतृभ्यः) तव गुणकर्मस्वभाववर्णनं कुर्वद्भ्यो जनेभ्यः (इषम्) अभीष्टपदार्थसमूहम् अभीष्टगुणसमूहं च। इषु इच्छायाम्, क्विपि रूपम् ‘इष्’ इति, ताम्। (आ भर) आहर ॥७॥२ अत्राग्नौ अस्तस्यारोपाद् रूपकालङ्कारः ॥७॥
Essence
परमात्मनः सकाशादेव सूर्यचन्द्रपृथिव्यादय आत्ममनश्चक्षुःश्रोत्रप्राणादयश्च स्वस्वक्रियाशक्तिं लभन्ते। स एव च स्तोतॄणां मनोरथान् पूरयति ॥७॥
Subject
अथाग्निर्देवता। सर्वे परमेश्वरादेव शक्तिं गृह्णन्तीत्याह।
Footnote
१. ऋ० ५।६।१, य० १५।४१ ऋषिः परमेष्ठी; साम० १७३७। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये विद्युदग्निविषये यजुर्भाष्ये च विद्यार्थ्यध्यापकव्यवहारविषये व्याख्यातवान्।