Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 424

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
स꣢ घा꣣ तं꣡ वृष꣢꣯ण꣣ꣳ र꣢थ꣣म꣡धि꣢ तिष्ठाति गो꣣वि꣡द꣢म् । यः꣡ पात्र꣢꣯ꣳ हारियोज꣣नं꣢ पू꣣र्ण꣡मि꣢न्द्र꣣ चि꣡के꣢तति꣣ यो꣢जा꣣꣬ न्वि꣢꣯न्द्र ते꣣ ह꣡री꣢ ॥४२४॥

सः꣢ । घ꣣ । त꣢म् । वृ꣡ष꣢꣯णम् । र꣡थ꣢꣯म् । अ꣡धि꣢꣯ । ति꣣ष्ठाति । गोवि꣡द꣢म् । गो꣣ । वि꣡द꣢꣯म् । यः । पा꣡त्र꣢꣯म् । हा꣣रियोजन꣢म् । हा꣣रि । योजन꣢म् । पू꣣र्ण꣢म् । इ꣣न्द्र । चि꣡के꣢꣯तति । यो꣡ज꣢꣯ । नु । इ꣣न्द्र । ते । ह꣢री꣣इ꣡ति꣢ ॥४२४॥

Mantra without Swara
स घा तं वृषणꣳ रथमधि तिष्ठाति गोविदम् । यः पात्रꣳ हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥

सः । घ । तम् । वृषणम् । रथम् । अधि । तिष्ठाति । गोविदम् । गो । विदम् । यः । पात्रम् । हारियोजनम् । हारि । योजनम् । पूर्णम् । इन्द्र । चिकेतति । योज । नु । इन्द्र । ते । हरीइति ॥४२४॥

Samveda - Mantra Number : 424
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) मदीय अन्तरात्मन् ! संहितायाम् ‘इन्द्रा’ इति दीर्घश्छान्दसः। (सः घ) स एव जनः। संहितायाम् ‘ऋचि तुनुघ०। अ० ६।३।१३३’ इति दीर्घः। (तम्) श्रेष्ठम् (वृषणम्) बलवन्तम्, (गोविदम्) गाः इन्द्रियरूपान् वृषभान् विन्दते प्राप्नोति यस्तम् (रथम्) मानवशरीररूपं शकटम् (अधि तिष्ठाति) अधिष्ठाय वर्तते। तिष्ठतेर्लेटि रूपम्। (यः हारियोजनम्) हरयः प्राणाः युज्यन्ते यस्मिन् तत् हरियोजनम् शरीरम्, तत्सम्बन्धि हारियोजनम् मानवदेहप्रदानक्षमम् (पात्रम्) सत्कर्मकोषम् (पूर्णम्) परिपूर्णम् (चिकेतति) जानाति। कित ज्ञाने जुहोत्यादिः, ततो लेटि रूपम्। अतः हे (इन्द्र) मदीय आत्मन् ! त्वम् (ते हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (नु) क्षिप्रम् (योज) युङ्क्ष्व। जन्मान्तरे पुनर्मानवदेहं प्राप्तुं ज्ञानेन्द्रियैः सत्यं ज्ञानं प्राप्नुहि, कर्मेन्द्रियैश्चोत्कृष्टकर्माणि कुर्विति भावः ॥६॥२
Essence
यो मनुष्योऽस्मिन् जन्मनि मानवदेहप्रापकाणि सत्कर्माणि करोति स एवाग्रे जन्मनि मानवदेहं प्राप्नोति, इदं ज्ञात्वा सर्वैर्मनुष्यैः श्रेष्ठाण्येव कर्माणि कर्तव्यानि ॥६॥
Subject
अथ को मानवदेहरूपं रथं प्राप्नोतीत्याह।
Footnote
१. ऋ० १।८२।४ ‘मिन्द्रा’ इत्यत्र ‘मिन्द्र’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमां सेनाध्यक्षविषये व्याख्यातवान्। तथा हि, तत्र तत्कृतो भावार्थः—‘सेनाध्यक्षेण पूर्णशिक्षाबलहर्षिता हस्त्यश्वरथशस्त्रादिसामग्रीपरिपूर्णां सेनां संपाद्य शत्रवो विजेयाः’—इति।