Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 423

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
क्र꣡त्वा꣢ म꣣हा꣡ꣳ अ꣢नुष्व꣣धं꣢ भी꣣म꣡ आ वा꣢꣯वृते꣣ श꣡वः꣢ । श्रि꣣य꣢ ऋ꣣ष्व꣡ उ꣢पा꣣क꣢यो꣣र्नि꣢ शि꣣प्री꣡ हरि꣢꣯वान् दधे꣣ ह꣡स्त꣢यो꣣र्व꣡ज्र꣢माय꣣स꣢म् ॥४२३॥

क्र꣡त्वा꣢꣯ । म꣣हा꣢न् । अ꣣नुष्वध꣢म् । अ꣣नु । स्वध꣢म् । भी꣣मः꣢ । आ । वा꣣वृते । श꣡वः꣢꣯ । श्रि꣣ये꣢ । ऋ꣣ष्वः꣢ । उ꣣पाक꣡योः꣢ । नि । शि꣣प्री꣢ । ह꣡रि꣢꣯वान् । द꣣धे । ह꣡स्त꣢꣯योः । व꣡ज्र꣢꣯म् । आ꣣यस꣢म् ॥४२३॥

Mantra without Swara
क्रत्वा महाꣳ अनुष्वधं भीम आ वावृते शवः । श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान् दधे हस्तयोर्वज्रमायसम् ॥

क्रत्वा । महान् । अनुष्वधम् । अनु । स्वधम् । भीमः । आ । वावृते । शवः । श्रिये । ऋष्वः । उपाकयोः । नि । शिप्री । हरिवान् । दधे । हस्तयोः । वज्रम् । आयसम् ॥४२३॥

Samveda - Mantra Number : 423
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (क्रत्वा) दिव्यप्रज्ञया जगद्धारणादिकर्मणा च (महान्) महिमवान्, (भीमः) नियमभञ्जकेभ्यो भयङ्करः स इन्द्रः परमेश्वरः (अनुस्वधम्) स्वधारणशक्त्यनुरूपम् (शवः) बलवत् सूर्यचन्द्रपृथिव्यादिकम्। शवः शवस्वत्। अत्र मतुपो लुक्। यद्वा बलवाचिनः शवस् शब्दस्य तद्वति लक्षणा। (आ वावृते) आवर्तयति। वृतु वर्तने, णिजर्थगर्भः। लडर्थे लिट्। ‘तुजादीनां दीर्घोऽभ्यासस्य। अ० ६।१।७’ इत्यभ्यासदीर्घः। (ऋष्वः) लोकलोकान्तराणां स्वस्वकक्षासु गमयिता। ऋषी गतौ धातोर्बाहुलकाद् औणादिको व प्रत्ययः। (शिप्री२) सृप्री जगद्विस्तारयिता, (हरिवान्) दोषहरणसामर्थ्योपेतः सः (श्रिये) ऐश्वर्यप्रदानाय (उपाकयोः३) समीपस्थयोः परस्परसंबद्धयोः (हस्तयोः) मनुष्यस्य करयोः (आयसम्) दृढम् (वज्रम्) शस्त्रास्त्रसमूहम् (नि दधे) स्थापयति ॥ अत्र जगत्सञ्चालके देवे ‘भीमः’ इति विशेषणम् ‘भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः। कठ० ६।२’, इत्याद्यर्थकमनुसन्धेयम् ॥ अथ द्वितीयः—सेनापतिपरः। (क्रत्वा) क्रतुना वृत्रवधादिकर्मणा (महान्) महिमोपेतः, (भामः) दुष्टानां भयङ्करः इन्द्रः वीरः सेनापतिः (अनुस्वधम्) पौष्टिकान्नभक्षणानुरूपम्। स्वधा इत्यन्ननाम। निघं० २।७। स्वशरीरे (शवः) बलम् (आ आवृते) आपादयति। (ऋष्वः) गतिमान् कर्मण्यः, (शिप्री४) शत्रुषु आकोशजनकः, (हरिवान्) प्रशस्ता हरयः यस्य तथाविधः सः (श्रिये) विजयश्रियमधिगन्तुम् (उपाकयोः) उपक्रान्तयोः शत्रुसैन्ययोरुपरि प्रहरणार्थम् (हस्तयोः) करयोः (आयसम्) लौहं, लोहवद् दृढं वा (वज्रम्) शस्त्रास्त्रसमूहम् (नि दधे) निधत्ते ॥५॥५ अत्र श्लेषालङ्कारः ॥५॥
Essence
यथा परमेश्वरो निष्कर्मणामपि हृदये वीरतां सञ्चार्य तेषां हस्तयोः शस्त्रास्त्राणि निधत्ते, तथा सेनापतिः स्वहस्तयोः शत्रुवधसमर्थानि दृढानि शस्त्रास्त्राणि गृहीत्वा शत्रुषु प्रहृत्य तान् पराजयेत ॥५॥
Subject
अथेन्द्रनाम्ना परमात्मनः सेनापतेश्च कर्म वर्णयति।
Footnote
१. ऋ० १।८१।४, ‘वावृते’ इत्यत्र ‘वावृधे’ इति पाठः। २. शिप्र शब्दः सर्पणार्थात् सृप धातोर्यास्केन निष्पादितः। सृप्रः सर्पणात्। सुशिप्रमेतेन व्याख्यातम् (निरु० ६।१७) इति। ३. उपाकयोः समीपवर्तिन्योः द्यावापृथिव्योः—इति भ०। उपाके इत्यन्तिकनामसु पठितम्। निघं० २।१६। ४. शत्रूणाम् आक्रोशयिता इति ऋग्भाष्ये द०। शप आक्रोशे। ५. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमां सेनापतिविषये व्याख्यातवान्—“मनुष्यैर्यो बुद्धिमान् महोत्तमगुणविशिष्टः शत्रूणां भयंकरः सेनाशिक्षकोऽतियोद्धा वर्तते तं सेनापतिं कृत्वा धर्मेण राज्यं प्रशासनीयम्” इति।