Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 422

1875 Mantra
Devata- सोमः Rishi- विमद ऐन्द्रः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
भ꣣द्रं꣢ नो꣣ अ꣡पि꣢ वातय꣣ म꣢नो꣣ द꣡क्ष꣢मु꣣त꣡ क्रतु꣢꣯म् । अ꣡था꣢ ते स꣣ख्ये꣡ अन्ध꣢꣯सो꣣ वि꣢ वो꣣ म꣢दे꣣ र꣢णा꣣ गा꣢वो꣣ न꣡ यव꣢꣯से꣣ वि꣡व꣢क्षसे ॥४२२॥

भ꣣द्र꣢म् । नः꣣ । अ꣡पि꣢꣯ । वा꣣तय । म꣡नः꣢꣯ । द꣡क्ष꣢꣯म् । उ꣣त꣢ । क्र꣡तु꣢꣯म् । अ꣡थ꣢꣯ । ते꣣ । सख्ये꣢ । स꣣ । ख्ये꣢ । अ꣡न्ध꣢꣯सः । वि । वः꣣ । म꣡दे꣢꣯ । र꣡ण꣢꣯ । गा꣡वः꣢꣯ । न । य꣡व꣢꣯से । वि꣡व꣢꣯क्षसे ॥४२२॥

Mantra without Swara
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥

भद्रम् । नः । अपि । वातय । मनः । दक्षम् । उत । क्रतुम् । अथ । ते । सख्ये । स । ख्ये । अन्धसः । वि । वः । मदे । रण । गावः । न । यवसे । विवक्षसे ॥४२२॥

Samveda - Mantra Number : 422
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम रसागार परमात्मन् ! त्वम् (नः) अस्मभ्यम् (भद्रम्) श्रेष्ठम् (मनः) मनोबलम्, (दक्षम्) शारीरं बलम्, (उत) अपि च (क्रतुम्) प्रज्ञानं कर्म च (अपि वातय२) अपि गमय, प्रापय। (अथ) अपि च त्वम् (ते) तव (अन्धसः) शान्तरूपस्य रसस्य (सख्ये) सखित्वे अपि च (वः) तव (मदे आनन्दे (वि रण३) विशेषेण रमय। अत्र पादादित्वान्निघाताभावः। (गावः न) यथा धेनवः (यवसे) घासे रमन्ते तद्वत्। हे सोम परमात्मन् ! त्वम् (विवक्षसे) महान् असि ॥४॥ अत्रोपमालङ्कारः ॥४॥
Essence
परमेश्वरोपासनया जनैरात्ममनोबुद्ध्यादिबलमानन्दश्च प्राप्तुं शक्यते ॥४॥
Subject
अथ सोमो देवता। स प्रार्थ्यते।
Footnote
१. ऋ० १०।२५।१ ऋषिः विमद ऐन्द्रः प्राजापत्यो वा वसुकृद् वा वासुक्रः। ‘अथा’, ‘रणा’ इत्यत्र क्रमेण ‘अधा’, ‘रणन्’ इति पाठः। केवलं पूर्वार्द्धः ऋ० १–०।२०।१ इत्यत्रापि दृश्यते। २. वात सुखसेवनयोः गतौ च चुरादिः। अपि पूर्वोऽन्यत्रापि प्रयुज्यते, यथा ‘सहस्रं ते स्वपिवात भेषजा’ ऋ० ७।४६।३ इत्यत्र। ३. शब्दार्थे पठितो रण धातुः रमणार्थेऽपि भवति, तथा च ‘रणाय रमणीयाय संग्रामाय’ इति (निरु० ४।८) ‘रण रमय’—इति वि०। ‘रणा रमन्तां स्तोतारः’—इति भ०। ‘रणाः प्रीतियुक्ता गावो न’—इति सायणीयं व्याख्यानं तु पदकारविरुद्धम्, पदपाठे ‘रण’ इति पाठात्। दीर्घत्वं तु ‘द्व्यचोऽतस्तिङः’ इति नियमाद् भवति।