Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 421

1875 Mantra
Devata- उषाः Rishi- सत्यश्रवा आत्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
म꣣हे꣡ नो꣢ अ꣣द्य꣡ बो꣢ध꣣यो꣡षो꣢ रा꣣ये꣢ दि꣣वि꣡त्म꣢ती । य꣡था꣢ चिन्नो꣣ अ꣡बो꣢धयः स꣣त्य꣡श्र꣢वसि वा꣣य्ये꣡ सुजा꣢꣯ते꣣ अ꣡श्व꣢सूनृते ॥४२१॥

म꣣हे꣢ । नः꣣ । अद्य꣢ । अ꣣ । द्य꣢ । बो꣣धय । उ꣡षः꣢꣯ । रा꣣ये꣢ । दि꣣वि꣡त्म꣢ती । य꣡था꣢꣯ । चि꣣त् । नः । अ꣡बो꣢꣯धयः । स꣣त्य꣡श्र꣢वसि । स꣣त्य꣢ । श्र꣣वसि । वाय्ये꣢ । सु꣡जा꣢꣯ते । सु । जा꣣ते । अ꣡श्व꣢꣯सूनृते । अ꣡श्व꣢꣯ । सू꣣नृते ॥४२१॥

Mantra without Swara
महे नो अद्य बोधयोषो राये दिवित्मती । यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥

महे । नः । अद्य । अ । द्य । बोधय । उषः । राये । दिवित्मती । यथा । चित् । नः । अबोधयः । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्व । सूनृते ॥४२१॥

Samveda - Mantra Number : 421
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (उषः) प्रभातदीप्तिरिव ममात्मलोके समुदीयमाने अध्यात्मप्रभे ! (दिवित्मती२) विवेकख्यातिप्रदीपकगुणैर्युक्ता त्वम्। दिव् पूर्वात् इन्धी दीप्तौ धातोः क्विपि सम्पन्नात् ‘दिवित्’ प्रातिपदिकात् मतुपि स्त्रियां रूपम्। (नः) अस्मान् (अद्य) अस्मिन् दिने (महे राये) योगसिद्धिरूपाय महते ऐश्वर्याय (बोधय) बोधं प्रयच्छ, (यथा) येन प्रकारेण, इतः पूर्वं त्वम्, हे (सुजाते) शोभनजन्मवति, (अश्वसूनृते३) अश्वा व्याप्तिमती सूनृता प्रिया दिव्या वाग् यस्याः तादृशि उषः ! (सत्यश्रवसि) सत्ययशसि। श्रवः श्रवणीयं यशः। निरु० ११।९। सत्यं श्रवो यस्यास्तादृशि। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (वाय्ये४) सन्ताननीये विस्तारणीये अस्माकं जीवने। वेञ् तन्तुसन्ताने धातोर्ण्यति रूपम्। (नः) अस्मान् (अबोधयः) बोधं प्रायच्छः ॥ सुजाते इत्यस्यामन्त्रितत्वेऽपि पादादित्वान्निघाताभावः। तस्य चाविद्यमानवत्त्वे पदात्परत्वाभावात् अश्वसूनृते इत्यपि न निहन्यते, किन्तु तत्र षाष्ठेनाद्युदात्तत्वमेव ॥३॥५
Essence
यथा प्रभातदीप्तिरूपा उषाः सर्वान् शयनाज्जागरयति तथैवाध्यात्मिक्युषा अस्मान् जागरयेत् प्रबोधयेच्च ॥३॥
Subject
अथोषा देवता। सा बोधनाय प्रार्थ्यते।
Footnote
१. ऋ० ५।७९।१, साम० १७४०। २. (दिवित्मता) दिवं प्रकाशम् इन्धते यैः प्रशस्तैः स्वगुणैः तद्वता इति ऋ० १।२६।२ भाष्ये द०। ३. अश्वा महती सूनृता वाग् यस्यास्तत्सम्बुद्धौ। अश्व इति महन्नाम (निघं० ३।६) इति ऋ० ५।७९।१ भाष्ये द०। अश्वां आशुकारिणी सूनृता वाक् यस्याः सा अश्वसूनृता—इति भ०। ४. (वाय्ये) तन्तुसदृशे सन्ताननीये विस्तारणीये सन्ततिरूपे इति तत्रैव ऋग्भाष्ये द०। सत्यश्रवसि ऋषौ विद्यमानान्, तस्य मम वश्यानित्यर्थः, वाय्ये वयस्य अपत्ये च विद्यमानान् यथा अबोधयः तथा अस्मान् अद्य बोधय। त्वमाविथ नर्यं तुर्वशं यदुं त्वं तुवीर्ति वय्यं शतक्रतो, ऋ० १।५४।६ इत्यादिषु वय्यश्च श्रूयते—इति भ०। वाय्ये वयपुत्रे सत्यश्रवसि मयि अनुगृहाणेत्यर्थः—इति सा०। ५. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमां स्त्री कीदृशी भवेदिति विषये व्याख्यातवान्। तथा च तदीयो भावार्थः—‘यथा प्रातर्वेला दिनं जनयित्वा सर्वाञ्जागरयति तथैव विदुषी स्त्री स्वसन्तानानविद्यानिद्रात उत्थाप्य विद्यां बोधयति’ इति।