Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 420

1875 Mantra
Devata- अग्निः Rishi- विमद ऐन्द्रः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣡ग्निं न स्ववृ꣢꣯क्तिभि꣣र्हो꣡ता꣢रं त्वा वृणीमहे । शी꣣रं꣡ पा꣢व꣣क꣡शो꣢चिषं꣣ वि꣢ वो꣣ म꣡दे꣢ य꣣ज्ञे꣡षु꣢ स्ती꣣र्ण꣡ब꣢र्हिषं꣣ वि꣡व꣢क्षसे ॥४२०॥

आ꣢ । अ꣣ग्नि꣢म् । न । स्व꣡वृ꣢꣯क्तिभिः । स्व । वृ꣣क्तिभिः । हो꣡ता꣢꣯रम् । त्वा꣣ । वृणीमहे । शीर꣢म् । पा꣣वक꣡शो꣢चिषम् । पा꣣वक꣡ । शो꣣चिषम् । वि꣢ । वः꣣ । म꣡दे꣢꣯ । य꣣ज्ञे꣡षु꣢ । स्ती꣣र्ण꣡ब꣢र्हिषम् । स्ती꣣र्ण꣢ । ब꣣र्हिषम् । वि꣡व꣢꣯क्षसे ॥४२०॥

Mantra without Swara
आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥

आ । अग्निम् । न । स्ववृक्तिभिः । स्व । वृक्तिभिः । होतारम् । त्वा । वृणीमहे । शीरम् । पावकशोचिषम् । पावक । शोचिषम् । वि । वः । मदे । यज्ञेषु । स्तीर्णबर्हिषम् । स्तीर्ण । बर्हिषम् । विवक्षसे ॥४२०॥

Samveda - Mantra Number : 420
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
वयम् (न२) सम्प्रति (होतारम्) सुखादीनां दातारम् (शीरम्) सर्वत्र शयानम्। शीरम् अनुशायिनमिति वाऽऽशिनमिति वा। निरु० ४।१४। (पावकशोचिषम्) शोधकदीप्तिम् (अग्निम्) अग्रनेतारं परमेश्वरम् (त्वा) त्वाम् (स्ववृक्तिभिः३) स्वकीयाभिः सूक्तिभिः क्रियाभिर्वा (आ वृणीमहे) आभिमुख्येन वृण्महे संभजामहे। वृञ् वरणे, क्र्यादिः। वयम् (वः मदे) त्वज्जनिते आनन्दे (वि) विभवेम, उत्कर्षं प्राप्नुयाम। अत्र उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। त्वम् (यज्ञेषु) ब्रह्मयज्ञदेवयज्ञादिपञ्चयज्ञेषु इतरेषु च विविधेषु परोपकारयज्ञेषु (स्तीर्णबर्हिषम्) स्तीर्णं प्रसारितं बर्हिः दर्भासनं येन तम्, यज्ञेषु प्रवृत्तं जनम् इत्यर्थः, (विवक्षसे) विशेषेण वहसि, उत्कर्षं नयसि। वि पूर्वाद् वह प्रापणे धातोर्लेटि रूपम् ॥२॥
Essence
परमानन्दप्रदाता, सर्वत्र व्यापकः, स्वतेजसा मनसां शोधको महान् परमेश्वरः सर्वैर्यज्ञानुष्ठातृभिर्भौतिकाऽग्निवद् वरणीयः ॥२॥
Subject
अथ कीदृग्गुणविशिष्टमग्निं परमेश्वरं वयं वृण्महे इत्याह।
Footnote
१. ऋ० १०।२१।१, ऋषिः विमव ऐन्द्रः प्राजापत्यो वा वसुकृद् वा वासुक्रः। ‘यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे’ इत्यत्तरार्धपाठः। २. न सम्प्रति—इति भ०। ३. स्वयङ्कृताभिः दोषवर्जिताभिः स्तुतिभिः—इति सा०।