Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 42

1875 Mantra
Devata- अग्निः Rishi- भर्गः प्रागाथः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
त्व꣢꣯मित्स꣣प्र꣡था꣢ अ꣣स्य꣡ग्ने꣢ त्रातरृ꣣तः꣢ क꣣विः꣢ । त्वां꣡ विप्रा꣢꣯सः समिधान दीदिव꣣ आ꣡ वि꣢वासन्ति वे꣣ध꣡सः꣢ ॥४२॥

त्व꣢म् । इत् । स꣣प्र꣡थाः꣢ । स꣣ । प्र꣡थाः꣢꣯ । अ꣣सि । अ꣡ग्ने꣢꣯ । त्रा꣣तः । ऋतः꣢ । क꣣विः꣢ । त्वाम् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । समिधान । सम् । इधान । दीदिवः । आ꣢ । वि꣣वासन्ति । वेध꣡सः꣢ ॥४२॥

Mantra without Swara
त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः । त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥

त्वम् । इत् । सप्रथाः । स । प्रथाः । असि । अग्ने । त्रातः । ऋतः । कविः । त्वाम् । विप्रासः । वि । प्रासः । समिधान । सम् । इधान । दीदिवः । आ । विवासन्ति । वेधसः ॥४२॥

Samveda - Mantra Number : 42
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (व्रातः) रक्षक (अग्ने) अग्रणीः परमेश्वर ! (त्वम् इत्) त्वं खलु (सप्रथाः) प्रथसा यशसा सहितः सप्रथाः परमयशस्वी, यद्वा सर्वत्र विस्तीर्णः। प्रथः यशः, प्रथ प्रख्याने। अयं विस्तारेऽपि दृश्यते। औणादिकः असुन्। सप्रथाः सर्वतः पृथुः इति निरुक्तम्। ६।७। (ऋतः) सत्यस्वरूपः, (कविः) वेदकाव्यस्य कर्ता, मेधाविनां मेधावी च। कविरिति मेधाविनाम। निघं० ३।१५। (असि) वर्तसे। हे (समिधान) सम्यक् प्रकाशमान, (दीदिवः२) प्रकाशक परमेश्वर ! दिवु धातोर्लिटः क्वसुः, ‘तुजादीनां दीर्घोऽभ्यासस्य।’ अ० ६।१।७ इत्यभ्यासस्य दीर्घः। मतुवसो रु सम्बुद्धौ छन्दसि।’ अ० ८।३।१ इति सस्य रुत्वम्। (वेधसः३) विधातारः कर्मयोगिनः (विप्रासः) मेधाविनो जनाः (त्वाम् आ विवासन्ति) समन्ततः परिचरन्ति। विवासतिः परिचरणकर्मा। निघं० ३।५ ॥८॥
Essence
परमेश्वरः सज्जनानां रक्षकः, सत्यगुणकर्मस्वभावः, निरतिशयमेधावी, वेदकाव्यस्य कविः, परमकीर्तिः, सर्वत्र व्यापको, ज्योतिष्मान्, प्रकाशकानामपि प्रकाशकश्चास्ति। तस्यैतद्गुणविशिष्टत्वात् कर्म- कुशला विद्वांसो जनाः सदैव तं सपर्यन्ति ॥८॥
Subject
अथ परमात्मा किंगुणविशिष्टोऽस्ति, के च तं पूजयन्तीत्याह।
Footnote
१. ऋ० ८।६०।५, ऋतस्कविः इति पाठः। ऋषिः भर्गः प्रागाथः। २. दीदिवः दानवन्—इति वि०। हे दीदिवः दीदिवन् दीप्त इति भ०। ३. वेधसः मेधाविनः ऋत्विजः—इति वि०। विधातारः कर्मणाम्—इति भ०।