Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 419

1875 Mantra
Devata- अग्निः Rishi- वसुश्रुत आत्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣡ ते꣢ अग्न इधीमहि द्यु꣣म꣡न्तं꣢ देवा꣣ज꣡र꣢म् । यु꣢द्ध꣣ स्या꣢ ते꣣ प꣡नी꣢यसी स꣣मि꣢द्दी꣣द꣡य꣢ति꣣ द्य꣡वी꣢꣯षꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥४१९॥

आ꣢ । ते꣣ । अग्ने । इधीमहि । द्युम꣡न्त꣢म् । दे꣣व । अज꣡र꣢म् । अ । ꣣ज꣡र꣢꣯म् । यत् । ह꣣ । स्या꣢ । ते꣣ । प꣡नी꣢꣯यसी । स꣣मि꣢त् । स꣣म् । इ꣢त् । दी꣣द꣡य꣢ति । द्य꣡वि꣢꣯ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥४१९॥

Mantra without Swara
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषꣳ स्तोतृभ्य आ भर ॥

आ । ते । अग्ने । इधीमहि । द्युमन्तम् । देव । अजरम् । अ । जरम् । यत् । ह । स्या । ते । पनीयसी । समित् । सम् । इत् । दीदयति । द्यवि । इषम् । स्तोतृभ्यः । आ । भर ॥४१९॥

Samveda - Mantra Number : 419
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देव) सर्वप्रकाशक (अग्ने) अन्तर्यामिन् जगदीश्वर ! वयम् (ते) तव (द्युमन्तम्) दीप्तिमन्तम् (अजरम्) जरावर्जितम् प्रकाशम् (आ इधीमहि) हृदये प्रदीपयेम। ञिइन्धी दीप्तौ धातोर्लिङि छान्दसं रूपम्। (यत्) या। अत्र ‘सुपां सुलुक्०’ इति सोर्लुक्। (ते) तव (स्या) सा प्रसिद्धा (पनीयसी) स्तुत्यतरा। पण व्यवहारे स्तुतौ च। पन्यते स्तूयते इति पना, ततोऽतिशायने ईयसुन् प्रत्ययः। (समित्) दीप्तिः (द्यवि) सूर्ये (दीदयति) प्रकाशते। दीदयतिः ज्वलतिकर्मा। निघं० १।१६। ताम् (इषम्) व्याप्तां दीप्तिम्। इष्यति व्याप्नोतीति इट्, ताम्। इष्यतेर्गत्यर्थात् क्विपि रूपम्। (स्तोतृभ्यः) स्तोत्रमुपहरद्भ्यः अस्मभ्यम् अपि (आ भर) आ हर ॥१॥२
Essence
यत्किमपि प्रकाशमानं वह्निविद्युच्चन्द्रसूर्यतारादिकं भुवि दिवि च विद्यते तत्सर्वं परमात्मनः प्रकाशेनैव प्रकाशते। तेन प्रकाशेन सर्वैर्जनैः स्वात्मापि प्रकाशनीयः ॥१॥
Subject
अथाद्ययोर्द्वयोः अग्निर्देवता। अग्नेः परमेश्वरस्य दिव्यं प्रकाशं प्रार्थयते।
Footnote
१. ऋ० ५।६।४। अथ० १८।४।८८ ऋषिः अथर्वा, ‘आ ते अग्न’, ‘यद्ध स्या’, ‘द्यवीषं’ इत्यत्र क्रमेण ‘आ त्वाग्न’, ‘यद् ध सा’, ‘द्यवि। इषं’ इति पाठः। साम० १०२२। २. ऋग्भाष्ये दयानन्दर्षिणायं मन्त्रोऽग्निविद्याविदो विदुषो विषये व्याख्यातः।