Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 418

1875 Mantra
Devata- आश्विनौ Rishi- अवस्युरात्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣡ति꣢ प्रि꣣य꣡त꣢म꣣ꣳ र꣢थं꣣ वृ꣡ष꣢णं वसु꣣वा꣡ह꣢नम् । स्तो꣣ता꣡ वा꣢मश्विना꣣वृ꣢षि꣣ स्तो꣡मे꣢भिर्भूषति꣣ प्र꣢ति꣣ मा꣢ध्वी꣣ म꣡म꣢ श्रुत꣣ꣳ ह꣡व꣢म् ॥४१८॥

प्र꣡ति꣢꣯ । प्रि꣣य꣡त꣢मम् । र꣡थ꣢꣯म् । वृ꣡ष꣢꣯णम् । व꣣सुवा꣡ह꣢नम् । वसु । वा꣡ह꣢꣯नम् । स्तो꣣ता꣢ । वा꣣म् । अश्विनौ । ऋ꣡षिः꣢꣯ । स्तो꣡मे꣢꣯भिः । भू꣣षति । प्र꣡ति꣢ । माध्वी꣣इ꣡ति꣢ । म꣡म꣢꣯ । श्रु꣣तम् । ह꣡व꣢꣯म् ॥४१८॥

Mantra without Swara
प्रति प्रियतमꣳ रथं वृषणं वसुवाहनम् । स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतꣳ हवम् ॥

प्रति । प्रियतमम् । रथम् । वृषणम् । वसुवाहनम् । वसु । वाहनम् । स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेभिः । भूषति । प्रति । माध्वीइति । मम । श्रुतम् । हवम् ॥४१८॥

Samveda - Mantra Number : 418
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—शरीररथपरः। हे (अश्विनौ) परमात्मजीवात्मानौ ! (प्रियतमम्) अतिशयेन प्रियम्, (वृषणम्) बलवन्तम्, (वसुवाहनम्) वसुभिः निवासकैः इन्द्रियैः उह्यते इति वसुवाहनः तम् (रथम्) मानवशरीररूपं शकटम् (प्रति) उद्दिश्य (स्तोता) स्तुतिकर्ता (ऋषिः) तत्त्वद्रष्टा विद्वान् जनः (स्तोमेभिः) स्तोत्रैः (वाम्) युवाम् (प्रतिभूषति) याचते, ऋषिरहं याचे इत्यर्थः। भूष अलङ्कारे भ्वादिः, अत्र प्रतिपूर्वो याचनार्थो गृह्यते। हे (माध्वी२) मधुरौ परमात्मजीवात्मानौ, युवाम् (मम) मदीयम् (हवम्) आह्वानम् (प्रति श्रुतम्) शृणुतम्। परे जन्मनि मानवशरीरमेवाहं प्राप्नुयाम्, न तु पशुपक्षिसरीसृपस्थावरादिशरीरमित्यर्थः। अत्र ‘श्रुवः शृ च। अ० ३।१।७४’ इत्यनेन प्राप्तः श्नुप्रत्ययः श्रुवः शृ आदेशश्च न भवति, छन्दसि सर्वेषां विधीनां वैकल्पिकत्वात् ॥ अथ द्वितीयः—शिल्परथपरः। हे (अश्विनौ) रथस्य निर्मातृचालकौ३ शिल्पिनौ ! (प्रियतमम्) अतिशयेन प्रियम्, (वृषणम्) शत्रुसेनाया उपरि शस्त्रास्त्रवृष्टिसाधनभूतम्, (वसुवाहनम्) वसूनि धनधान्यादीनि वहति देशान्तरं प्रापयतीति तम् (रथम्) विमानादियानम् (वाम्) युवयोः (स्तोता) प्रशंसकः (ऋषिः) विद्वान् जनः (स्तोमेभिः) देशान्तरं नेतुं योग्यैः पदार्थसमूहैः (प्रतिभूषति) अलङ्करोति। हे (माध्वी) मधुरगतिविद्याविदौ शिल्पिनौ ! युवाम् (मम) मदीयम् (हवम्) रथसाधनचालनरूपम् आह्वानम् (प्रति श्रुतम्) पूरयतम् ॥१०॥४ अत्र श्लेषालङ्कारः ॥१०॥
Essence
सर्वैर्मनुष्यैस्तादृशानि कर्माण्याचरणीयानि यैः पुनर्जन्मनि मानवशरीरमेव प्राप्येत। तथैव राष्ट्रे शिल्पविद्योन्नत्या वेगवन्ति भूजलान्तरिक्षयानानि निर्मापयितव्यानि, देशान्तरगमनव्यापारयुद्धादिषु च प्रयोक्तव्यानि ॥१०॥ अत्रेन्द्रसहयोगिनीनां गौरीणां वर्णनात्, इन्द्रस्य स्वराज्यवर्णनात्, तदाह्वानात्, तदुद्बोधनात्, तत्स्तवनात्, चन्द्रसूर्यादिगतीनां तत्कर्तृकत्वप्रतिपादनात्, तद्दातव्यरथवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥ इति पञ्चमे प्रपाठके प्रथमार्द्धे तृतीया दशतिः ॥ इति चतुर्थेऽध्याये सप्तमः खण्डः ॥
Subject
अथाश्विनौ देवते। देहरथविषयं शिल्परथविषयं चाह।
Footnote
१. ऋ० ५।७५।१ ‘स्तोता वामश्विनावृषिः स्तोमेन प्रतिभूषति’ इत्युत्तरार्धपाठः। साम० १७४३। २. हे माध्वी, मधुपूर्णो दृतिः माध्वः, ‘तस्येदम् पा० ४।३।१२०’ इत्यण्। ‘यो ह वां मधुनो दृतिराहितो रथचर्षणे’ (ऋ० ८।५।१९) इति मन्त्रान्तरदर्शनात्। स ययोरस्ति तौ माध्वी। छन्दसीवनिपौ (वा० ५।२।१०९) इति ईकारो मत्वर्थीयः। तयोः सम्बोधनं हे माध्वी—इति वि०। माध्वी मधुविद्याविदौ—इति भ०। ३. अश्विनौ जलाग्नी इव निर्मातृवोढारौ (शिल्पिचालकौ) इति ऋ० १।१८२।७ भाष्ये द०। ४. ऋग्भाष्येऽस्मिन् मन्त्रे दयानन्दर्षिः ‘अश्विनौ’ इति पदेन अध्यापकपरीक्षकौ, ‘रथम्’ इत्यनेन च विमानादियानं गृह्णाति।