Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 416

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
उ꣢पो꣣ षु꣡ शृ꣢णु꣣ही꣢꣫ गिरो꣣ म꣡घ꣢व꣣न्मा꣡त꣢था इव । क꣣दा꣡ नः꣢ सू꣣नृ꣡ता꣢वतः꣣ क꣢र꣣ इ꣢द꣣र्थ꣡या꣢स꣣ इद्यो꣢꣫जा꣣꣬ न्वि꣢꣯न्द्र ते꣣ ह꣡री꣢ ॥४१६॥

उ꣡प꣢꣯ । उ꣣ । सु꣢ । शृ꣣णुहि꣢ । गि꣡रः꣢꣯ । म꣡घ꣢꣯वन् । मा । अ꣡त꣢꣯थाः । इ꣣व । कदा꣢ । नः꣣ । सूनृ꣡ता꣢वतः । सु꣣ । नृ꣡ता꣢꣯वतः । क꣡रः꣢꣯ । इत् । अ꣣र्थ꣡या꣢से । इत् । यो꣡ज꣢꣯ । नु । इ꣣न्द्र । ते । ह꣢री꣣इ꣡ति꣢ ॥४१६॥

Mantra without Swara
उपो षु शृणुही गिरो मघवन्मातथा इव । कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी ॥

उप । उ । सु । शृणुहि । गिरः । मघवन् । मा । अतथाः । इव । कदा । नः । सूनृतावतः । सु । नृतावतः । करः । इत् । अर्थयासे । इत् । योज । नु । इन्द्र । ते । हरीइति ॥४१६॥

Samveda - Mantra Number : 416
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मघवन्) ऐश्वर्यवन् दानशील मदीय अन्तरात्मन्, परमेश्वर, राजन् वा ! त्वम् (गिरः) मम वाचः (सु उप-उ शृणुहि) सम्यक् उपशृणु, (अतथाः इव) यादृशः पूर्वं ममानुकूलः आसीः तद्विपरीतः इव (मा) मा भूः। त्वम् (कदा) कस्मिन् काले (नः) अस्मान् (सूनृतावतः) प्रियसत्यवाग्युक्तान्, वेदवाग्युक्तान्, आध्यात्मिक्या उषसा युक्तान्, भोज्यपदार्थयुक्तान् वा। सूनृता इति उषर्नाम अन्ननाम च। निघं० १।८, २।७। (इत्) निश्चयेन (करः) करिष्यसि ? करोतेर्लेटि सिपि रूपम्, विकरणव्यत्ययेन शप्। कुतः त्वम् (अर्थयासे इत्) याचसे एव, न तु ददासि। अर्थयतेर्लेटि रूपम्। हे (इन्द्र) शक्तिशालिन् मदीय अन्तरात्मन् ! त्वम् (नु) क्षिप्रम् (ते) तव (हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (योज) युङ्क्ष्व, सक्रियान् कुरु, सज्ज्ञानसत्कर्मोपार्जनेन च समृद्धो भव। अथ च, (इन्द्र) हे परमात्मन् ! त्वम् (ते) तव (हरी) ऋक्सामे। ऋक्सामे वै हरी। श० ४।४।३।६। (नु) क्षिप्रम् (योज) अस्माकम् आत्मनि प्रेरय, येन सर्वविधज्ञानेन सामसंगीतेन च सम्पन्ना वयम् उत्कर्षं प्राप्नुयाम। अथ च (इन्द्र) हे राजन् ! त्वम् अस्मत्समीपमागन्तुम् (ते) तव (हरी) जलाग्निवायुविद्युदादिरूपौ अश्वौ (नु) क्षिप्रम् (योज) विमानादिरथेषु नियोजय। अस्मत्समीपं समागत्य चास्मान् गौरवान्वितान् त्वत्साहाय्यभाजश्च कुरु ॥८॥३ अत्र श्लेषालङ्कारः ॥८॥
Essence
सर्वैश्वर्यवन्तं सफलताप्रदायकं परमेश्वरमाहूय, स्वान्तरात्मानं राष्ट्रस्य राजानं च समुद्बोध्य वयं सर्वमभीष्टं प्राप्तुं शक्नुमः ॥८॥
Subject
अथेन्द्रनाम्ना परमात्मानं, स्वान्तरात्मानं, राजानं वा प्रार्थयते।
Footnote
१. ऋ० १।८२।१, ‘यदा नः सूनृतावतः कर आदर्थयास इद्’ इति पाठः। २. मा तथाः। तनु विस्तारे इत्यस्येदं रूपम्। मा विस्तारं कार्षीः, मा विलम्बिष्ठाः। शीघ्रमागच्छेत्यर्थः—इति वि०। तत्तु पदकारविरुद्धम्। ‘मा मा श्रौषीः अतथाः इव अयथार्था इव परेषां स्तुतीः—इति भ०। अतथा इव पूर्वं यथाविधस्त्वं तद्विपरीतो मा भूः, अस्मासु पूर्वं यथा अनुग्रहबुद्धियुक्तस्तथाविध एव भवेत्यर्थः—इति सा०। शब्दनिष्पत्तिं च सायणः ऋग्भाष्ये (ऋ० १।८२।१) एवं निरूपयति—तथेवाचरति तथाति ‘सर्वप्रातिपदिकेभ्य इत्येके’ का० ३।१।११।२ इति क्विप्। तथातेः अ प्रत्ययः। न तथा इव अतथाः इव। अव्ययपूर्वपदप्रकृतिस्वरत्वम् इति। (अतथा इव) प्रतिकूल इव, अत्राचारे क्विप् तदन्ताच्च प्रत्ययः—इत तत्रैव ऋग्भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमाम् परमेश्वरोपासकः सेनेशः कीदृशः स्यादिति विषये व्याख्यातवान्।