Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 414

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣢दु꣣दी꣡र꣢त आ꣣ज꣡यो꣢ धृ꣣ष्ण꣡वे꣢ धीयते꣣ ध꣡न꣢म् । यु꣣ङ्क्ष्वा꣡ म꣢द꣣च्यु꣢ता꣣ ह꣢री꣣ क꣢꣫ꣳ हनः꣣ कं꣡ वसौ꣢꣯ दधो꣣ऽस्मा꣡ꣳ इ꣢न्द्र꣣ व꣡सौ꣢ दधः ॥४१४॥

य꣢त् । उ꣣दी꣡र꣢ते । उत् । ई꣡र꣢꣯ते । आ꣣ज꣡यः꣢ । धृ꣣ष्ण꣡वे꣢ । धी꣣यते । ध꣡न꣢꣯म् । युङ्क्ष्व꣢ । म꣣दच्यु꣡ता꣢ । म꣣द । च्यु꣡ता꣢꣯ । हरी꣣इ꣡ति꣢ । कम् । ह꣡नः꣢꣯ । कं । व꣡सौ꣢꣯ । द꣣धः । अस्मा꣢न् । इ꣣न्द्र । व꣡सौ꣢꣯ । द꣣धः ॥४१४॥

Mantra without Swara
यदुदीरत आजयो धृष्णवे धीयते धनम् । युङ्क्ष्वा मदच्युता हरी कꣳ हनः कं वसौ दधोऽस्माꣳ इन्द्र वसौ दधः ॥

यत् । उदीरते । उत् । ईरते । आजयः । धृष्णवे । धीयते । धनम् । युङ्क्ष्व । मदच्युता । मद । च्युता । हरीइति । कम् । हनः । कं । वसौ । दधः । अस्मान् । इन्द्र । वसौ । दधः ॥४१४॥

Samveda - Mantra Number : 414
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यदा (आजयः) देवासुरसंग्रामाः (उदीरते) उद्गच्छन्ति, तदा (धृष्णवे) शत्रुपराजयकारिणे (धनम्) ऐश्वर्यम् (धीयते) निधीयते। अतः, हे (इन्द्र) मदीय आत्मन् सेनापते राजन् वा ! त्वम् (मदच्युता) शत्रूणां मदस्य च्यावयितारौ (हरी) ज्ञानेन्द्रिय-कर्मेन्द्रियरूपौ अश्वौ यद्वा युद्धयानहरणसाधनभूतौ जलाग्निरूपौ वायुविद्युद्रूपौ वा अश्वौ (युङ्क्ष्व) कार्यतत्परौ कुरु। (कम्) कञ्चित्, शत्रुजनमिति भावः (हनः) जहि (कम्) कञ्चित्, मित्रजनमिति भावः (वसौ) वसुनि ऐश्वर्ये (दधः) स्थापय। (अस्मान्) दिव्यकर्मसु संलग्नान् धार्मिकान् नः (वसौ) ऐश्वर्ये (दधः) स्थापय। युङ्क्ष्वा इत्यत्र ‘द्व्यचोऽतस्तिङः। अ० ६।३।१३४’ इति दीर्घः। ‘मदच्युता’ इत्यत्र सुपां सुलुगिति औकारस्याकारः। हनः इति दधः इति च क्रमेण हन्तेर्दधातेश्च लेटि सिपि रूपम् ॥६॥२
Essence
आन्तरेषु बाह्येषु वा देवासुरसंग्रामेषूपस्थितेषु सर्वैरसुरान् पराजित्य देवानुत्साह्य विजयश्रीर्दिव्या भौतिकी वा सम्पच्च प्राप्तव्या ॥६॥ एतन्मन्त्रव्याख्याने सायणाचार्य इत्थमितिहासं प्रदर्शयति—अत्रेदमाख्यानम्। रहूगणपुत्रो गोतमः कुरुसृञ्जयानां राज्ञां पुरोहित आसीत्। तेषां राज्ञां परैः सह युद्धे सति स ऋषिरनेन इन्द्रं स्तुत्वा स्वकीयानां जयं प्रार्थयामासेति। राहूगणो गोतमोऽस्य मन्त्रस्य द्रष्टा ऋषिः, तद्विषयक एवायमितिहासो विज्ञेयः ॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० १।८१।३, अथ० २०।५६।३। उभयत्र ‘धनम्’, ‘युङ्क्ष्वा’ अनयोः स्थाने क्रमेण ‘धना’, ‘युक्ष्वा’ इति पाठः। साम० १००४। २. ऋग्भाष्ये दयानन्दर्षिरस्या ऋचो व्याख्याने भावार्थमेवमाह—“यदा युद्धानि कर्तव्यानि भवेयुस्तदा सेनापतयो यानशस्त्रास्त्रभोजनाच्छादनसामग्रीरलंकृत्य कांश्चिच्छत्रून् हत्वा काश्चिचन्मित्रान् सत्कृत्य युद्धादिकार्येषु धार्मिकान् संयोज्य युक्त्या योधयित्वा युद्ध्वा च सततं विजयान् प्राप्नुयुः” इति।