Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 413

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्रे꣢ह्य꣣भी꣡हि꣢ धृष्णु꣣हि꣢꣫ न ते꣣ व꣢ज्रो꣣ नि꣡ य꣢ꣳसते । इ꣡न्द्र꣢ नृ꣣म्ण꣢꣫ꣳहि ते꣣ श꣢वो꣣ ह꣡नो꣢ वृ꣣त्रं꣡ जया꣢꣯ अ꣣पो꣢ऽर्च꣣न्न꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४१३॥

प्र꣢ । इ꣣हि । अभि꣢ । इ꣣हि । धृष्णुहि꣢ । न । ते꣣ । व꣡ज्रः꣢꣯ । नि । यँ꣣सते । इ꣡न्द्र꣢꣯ । नृ꣣म्ण꣢म् । हि । ते꣣ । श꣡वः꣢꣯ । ह꣡नः꣢꣯ । वृ꣣त्र꣢म् । ज꣡याः꣢꣯ । अ꣣पः꣢ । अ꣡र्च꣢꣯न् । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥४१३॥

Mantra without Swara
प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यꣳसते । इन्द्र नृम्णꣳहि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥

प्र । इहि । अभि । इहि । धृष्णुहि । न । ते । वज्रः । नि । यँसते । इन्द्र । नृम्णम् । हि । ते । शवः । हनः । वृत्रम् । जयाः । अपः । अर्चन् । अनु । स्वराज्यम् । स्व । राज्यम् ॥४१३॥

Samveda - Mantra Number : 413
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जीवात्मन्, राजन्, सेनापते वा ! त्वम् (प्रेहि) प्रयाहि, (अभीहि) आक्रमस्व, (धृष्णुहि) पराभव शत्रून्। (ते) तव (वज्रः) वज्रतुल्यं रिपुविनाशसामर्थ्यम् शस्त्रास्त्रसमूहो वा (न नियंसते२) न अवरोद्धुं प्रतिकर्तुं वा शक्यते। नि पूर्वाद् यम उपरमे धातोः कर्मणि लेटि रूपम्। (ते) तव (शवः) बलम् (नृम्णं३ हि) त्वत्कृते धनरूपम् अस्ति। नृम्णमिति धननाम। निघं० २।९। त्वम् (स्वराज्यम् अनु) स्वराज्यानुकूलम् (अर्चन्) कर्म कुर्वन् (वृत्रम्) पापं शत्रुं वा (हनः) जहि। हन्तेर्लेटि मध्यमैकवचने रूपम्। (अपः) मेघेन प्रतिरुद्धं जलसमूहमिव शत्रुभिः प्रतिरुद्धं सत्कर्मसमूहम्। अपस् इति कर्मनाम। निघं० २।१। (जयाः) विजयस्व। जि जये धातोर्लेटि सिपि ‘लेटोऽडाटौ’ इत्याडागमे रूपम् ॥५॥४ अत्र वीरो रसः। श्लेषालङ्कारः, अनेकासु क्रियास्वेककारकयोगाद् दीपकम् ॥५॥
Essence
मनुष्यस्यात्मा, राजा, सेनाध्यक्षश्च यदा स्वकीयां परैर्दुर्दमनीयां महतीं शक्तिं परिचिन्वन्ति तदा सर्वानाभ्यन्तरान् बाह्यांश्च रिपून् धूलिसात् कृत्वा विजयं नूनं लभते ॥५॥
Subject
अथेन्द्रनाम्ना जीवात्मा राजा सेनापतिश्च विजयाय प्रोत्साह्यन्ते।
Footnote
१. ऋ० १।८०।३। २. न नियम्यते न निवार्यते केनचिदित्यर्थः—इति वि०। ३. इन्द्र नृम्णं हि ते शवः। यस्मात् शत्रुभूतानामपि मनुष्याणाम् अवनामकरं तव शवः बलम्—इति वि०। नृम्णं नृणां नामकम्—इति भ०। ४. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमां ‘ये राजजनाः सूर्यवत् प्रकाशितकीर्तयः सन्ति ते राज्यैश्वर्यभोगिनो भवन्ती’ति विषये व्याख्यातवान्।