Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 412

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣢न्द्र꣣ तु꣢भ्य꣣मि꣡दद्रि꣣वो꣡ऽनु꣢त्तं वज्रिन्वी꣣꣬र्य꣢꣯म् । य꣢꣯द्ध꣣ त्यं꣢ मा꣣यि꣡नं꣢ मृ꣣गं꣢꣫ तव꣣ त्य꣢न्मा꣣य꣡याव꣢꣯धी꣣र꣢र्च꣣न्न꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४१२॥

इ꣡न्द्र꣢꣯ । तु꣢भ्य꣢꣯म् । इत् । अ꣣द्रिवः । अ । द्रिवः । अ꣡नु꣢꣯त्तम् । अ । नु꣣त्तम् । वज्रिन् । वीर्य꣢꣯म् । यत् । ह꣣ । त्य꣢म् । मा꣣यि꣡न꣢म् । मृ꣣ग꣢म् । त꣡व꣢꣯ । त्यत् । मा꣣य꣡या꣢ । अ꣡व꣢꣯धीः । अ꣡र्च꣢꣯न् । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥४१२॥

Mantra without Swara
इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् । यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम् ॥

इन्द्र । तुभ्यम् । इत् । अद्रिवः । अ । द्रिवः । अनुत्तम् । अ । नुत्तम् । वज्रिन् । वीर्यम् । यत् । ह । त्यम् । मायिनम् । मृगम् । तव । त्यत् । मायया । अवधीः । अर्चन् । अनु । स्वराज्यम् । स्व । राज्यम् ॥४१२॥

Samveda - Mantra Number : 412
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अद्रिवः) मेघयुक्तमन्तरिक्षमिव विद्यमान, मेघयुक्तमन्तरिक्षं यथा जलं वर्षति तद्वत् सुखवर्षक इत्यर्थः। अद्रिरिति मेघनाम। निघं० १।१०। हे (वज्रिन्) शत्रुषु दण्डधर (इन्द्र) परमात्मन्, जीवात्मन्, राजन्, सेनापते वा ! (तुभ्यम् इत्) तवैव। अत्र ‘षष्ठ्यर्थे चतुर्थीति वाच्यम्। अ० २।३।६२’ वा० इति षष्ठ्यर्थे चतुर्थी। (अनुत्तम्) शत्रुभिरप्रतिहतम्। न नुत्तम् अनुत्तम्, नुद प्रेरणे। (वीर्यम्) शौर्यम् अस्ति। (यत्) यत् त्वम् (स्वराज्यम् अनु) स्वराज्यानुकूलम् (अर्चन्) कर्म कुर्वन् (त्यम्) तम् कुख्यातम्, (मायिनम्) छलादिदोषयुक्तम् (मृगम्) पशुतुल्यम् शत्रुम् (मायया) कौशलेन (अवधीः) हंसि। अत्र लडर्थे लुङ्। (तव त्यत्) तवैव तत् अन्यजनदुर्लभं कर्म वर्वर्ति ॥४॥२ अत्र अर्थश्लेषालङ्कारः ॥४॥
Essence
परमात्मानं स्मृत्वा जीवात्मानं, नृपतिं, सेनापतिं च समुद्बोध्य तद्द्वारा निखिलानाभ्यन्तरान् बाह्यांश्च रिपूनुन्मूल्य सर्वैरात्मनो राष्ट्रस्य च स्वराज्यमुपभोक्तव्यम् ॥४॥
Subject
अथ परमात्मनो जीवात्मनो नृपतेः सेनापतेर्वा शौर्यं प्रशस्यते।
Footnote
१. ऋ० १।८०।७ ‘तव त्यत्’ इत्यत्र ‘तमु त्वं’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमां ‘ये प्रजापालनाय सूर्यवत् स्वबलन्यायविद्याः प्रकाश्य कपटिनो जनान् निबध्नन्ति ते राज्यं वर्द्धयितुं करान् प्राप्तुं च शक्नुवन्तीति’ विषये व्याख्यातवान्।