Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 411

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣢न्द्रो꣣ म꣡दा꣢य वावृधे꣣ श꣡व꣢से वृत्र꣣हा꣡ नृभिः꣢꣯ । त꣢꣯मिन्म꣣ह꣢त्स्वा꣣जि꣢षू꣣ति꣡मर्भे꣢꣯ हवामहे꣣ स꣡ वाजे꣢꣯षु꣣ प्र꣡ नो꣢ऽविषत् ॥४११॥

इ꣡न्द्रः꣢꣯ । म꣡दा꣢꣯य । वा꣣वृधे । श꣡व꣢꣯से । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । नृ꣡भिः꣢꣯ । तम् । इत् । म꣣ह꣡त्सु꣢ । आ꣣जि꣡षु꣢ । ऊ꣣ति꣢म् । अ꣡र्भे꣢꣯ । ह꣣वामहे । सः꣢ । वा꣡जे꣢꣯षु । प्र । नः꣣ । अविषत् ॥४११॥

Mantra without Swara
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥

इन्द्रः । मदाय । वावृधे । शवसे । वृत्रहा । वृत्र । हा । नृभिः । तम् । इत् । महत्सु । आजिषु । ऊतिम् । अर्भे । हवामहे । सः । वाजेषु । प्र । नः । अविषत् ॥४११॥

Samveda - Mantra Number : 411
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृत्रहा) शत्रुहन्ता (इन्द्रः) वीरः परमात्मा, जीवात्मा, राजा, सेनापतिर्वा (मदाय) हर्षं प्रदातुं (शवसे) बलकर्माणि कर्तुं च (नृभिः) मनुष्यैः (वावृधे२) वर्ध्यते उत्साह्यते वा। वृधु धातोर्ण्यन्ताल्लडर्थे लिटि रूपम्। ‘तुजादीनां दीर्घोऽभ्यासस्य। अ० ६।१।७’ इत्यभ्यासस्य दीर्घः। (तम् इत्) तमेव (ऊतिम्) रक्षकम्। अत्र अवतेर्रक्षणार्थात् कर्तरि क्तिन्। (महत्सु आजिषु) विकटेषु संग्रामेषु। आजिः इति संग्रामनाम। निघं० २।१७। (अर्भे) अल्पे च संग्रामे (हवामहे) आह्वयामः। (सः) परमात्मा जीवात्मा राजा सेनापतिर्वा (वाजेषु) संग्रामेषु (नः) अस्मान् (प्र अविषत्) प्रकर्षेण रक्षतु। अव धातोर्लेटि तिपि रूपम्। मध्ये ‘सिब्बहुलं लेटि। ३।१।३४’ इति सिबागमः। ‘इतश्च लोपः परस्मैपदेषु। ३।४।९०’ इति तिप इकारस्य लोपः ॥३॥ ३ अत्र अर्थश्लेषालङ्कारः ॥३॥
Essence
आनन्दम्, आत्मबलं, शरीरबलं च प्राप्तुं परमात्मा स्तुत्या, जीवात्मा प्रोद्बोधनेन, राजा सेनापतिश्च जयकारेण हर्षणीयः। साधारणे विकटे वाऽऽभ्यन्तरे बाह्ये च देवासुरसंग्रामे त एवास्माकं सहायका भवन्ति ॥३॥
Subject
अथेन्द्रनाम्ना परमात्मा, जीवात्मा, राजा, सेनापतिर्वा संग्रामजयार्थमाहूयते।
Footnote
१. ऋ० १।८१।१, अथ० २०।५६।१। उभयत्र ‘षूतिमर्भे’ इत्यस्य स्थाने ‘पूतेमर्भे’ इति पाठः। साम० १००२। २. वावृधे वर्ध्यते। लडर्थे लिट्। वृद्धः क्रियते—इति भ०। वर्धते स्तुतिभिः—इति वि०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं सेनाध्यक्षपक्षे व्याख्यातवान्।