Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 410

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣त्था꣢꣫ हि सोम꣣ इ꣢꣫न्मदो꣣ ब्र꣡ह्म꣢ च꣣का꣢र꣣ व꣡र्ध꣢नम् । श꣡वि꣢ष्ठ वज्रि꣣न्नो꣡ज꣢सा पृथि꣣व्या꣡ निः श꣢꣯शा꣣ अ꣢हि꣣म꣢र्च꣣न्न꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४१०॥

इ꣣त्था꣢ । हि । सो꣡मः꣢꣯ । इत् । म꣡दः꣢꣯ । ब्र꣡ह्म꣢꣯ । च꣣का꣡र꣢ । व꣡र्ध꣢꣯नम् । श꣡वि꣢꣯ष्ठ । व꣣ज्रिन् । ओ꣡ज꣢꣯सा । पृ꣣थिव्याः꣢ । निः । श꣣शाः । अ꣡हि꣢꣯म् । अ꣡र्च꣢꣯न् । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥४१०॥

Mantra without Swara
इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनम् । शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥

इत्था । हि । सोमः । इत् । मदः । ब्रह्म । चकार । वर्धनम् । शविष्ठ । वज्रिन् । ओजसा । पृथिव्याः । निः । शशाः । अहिम् । अर्चन् । अनु । स्वराज्यम् । स्व । राज्यम् ॥४१०॥

Samveda - Mantra Number : 410
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इत्था हि) सत्यमेव (सोमः२) ब्रह्मानन्दरसो वीररसो वा (इत्) निश्चयेन (मदः) हर्षकरो भवति, तेन (ब्रह्म३) जीवात्मा राजा वा। संहितायां दीर्घश्छान्दसः। (वर्धनम्) उन्नतिम् (चकार) करोति। तेन अनु प्राणितः सन् हे (शविष्ठ) बलिष्ठ, (वज्रिन्) दुष्टतासु दुष्टेषु वा वज्रप्रहर्तः इन्द्र जीवात्मन् राजन् वा ! त्वम् (स्वराज्यम्) आत्मराज्यम् (अनु अर्चन्) आनुकूल्येन सत्कुर्वन् (ओजसा) बलेन (पृथिव्याः) शरीरात्, शरीरवर्तिभ्यो मनोबुद्धिप्राणेन्द्रियेभ्यः इत्यर्थः, राष्ट्रभूमेश्च। पृ॑थि॒वी शरीर॑म्। अथ० ५।९।७ इति श्रुतेः पृथिवीति शरीरनाम। (अहिम्) दुःसंकल्पादिरूपं, पापरूपं, रोगादिरूपं, लुण्ठकतस्करवञ्चकादिरूपम्, शत्रुरूपं च असुरम् (निःशशाः४) निर्गमय। निस् पूर्वात् शश प्लुतगतौ धातोर्णिजर्थगर्भात् लेटि सिपि रूपम् ॥२॥ ५ अत्र श्लेषालङ्कारः ॥२॥
Essence
शरीरे जीवात्मा राष्ट्रे च राजा ब्रह्मानन्दरसं वीररसं च पीत्वा शरीरस्य राष्ट्रस्य च शत्रून् निःशेष्य वाङ्निर्घोषेण दुन्दुभिघोषेण च स्वराज्यमर्चताम् ॥२॥
Subject
अथ शरीराद् राष्ट्रभूमेश्च शत्रुं निस्सारयितुमाह।
Footnote
१. ऋ० १।८०।१ ‘मदो’ इत्यत्र ‘मदे’ इति पाठः। २. माधवभरतस्वामिसायणाचार्याः ‘सोमे इत्’ इति विच्छिद्य व्याचख्युः। ‘अस्माभिस्तु सोमः इत्’ इति पदपाठोऽनुसृतः। ३. अत्रास्माभिः सामपदपाठोऽनुसृतः। ऋग्वेदीयपदपाठे तु अत्र ‘ब्रह्मा’ इति प्राप्यते। ४. शश प्लुतावित्यस्येदं रूपम् अन्तर्णीतण्यर्थञ्चात्र द्रष्टव्यम्। निर्गमय भूमौ पातयेत्यर्थः—इति वि०। तदेव भरतस्वामिनोऽभिप्रेतम्। ५. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमां ‘मनुष्याश्चक्रवर्तिराज्यस्य सामग्रीं विधाय पालनं कृत्वा विद्यासुखोन्नतिं कुर्युः’ इति विषये व्याख्यातवान्।