Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 41

1875 Mantra
Devata- अग्निः Rishi- शंयुर्बार्हस्पत्यः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
त्वं꣡ न꣢श्चि꣣त्र꣢ ऊ꣣त्या꣢꣫ वसो꣣ रा꣡धा꣢ꣳसि चोदय । अ꣣स्य꣢ रा꣣य꣡स्त्वम꣢꣯ग्ने र꣣थी꣡र꣢सि वि꣣दा꣢ गा꣣धं꣢ तु꣣चे꣡ तु नः꣢꣯ ॥४१॥

त्व꣢म् । नः꣣ । चित्रः꣢ । ऊ꣣त्या꣢ । व꣡सो꣢꣯ । रा꣡धाँ꣢꣯सि । चो꣣दय । अस्य꣢ । रा꣣यः꣢ । त्वम् । अ꣣ग्ने । रथीः꣢ । अ꣣सि । विदाः꣢ । गा꣣ध꣢म् तु꣣चे꣢ । तु । नः꣣ ॥४१॥

Mantra without Swara
त्वं नश्चित्र ऊत्या वसो राधाꣳसि चोदय । अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥

त्वम् । नः । चित्रः । ऊत्या । वसो । राधाँसि । चोदय । अस्य । रायः । त्वम् । अग्ने । रथीः । असि । विदाः । गाधम् तुचे । तु । नः ॥४१॥

Samveda - Mantra Number : 41
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वसो) निवासक (अग्ने) परमात्मन् ! (चित्रः२) अद्भुतगुणकर्मस्वभावः, पूज्यः, दर्शनीयो वा (त्वम् ऊत्या) रक्षया सार्धम् (नः) अस्मभ्यम् (राधांसि३) विद्यासुवर्णचक्रवर्तिराज्यमोक्षादि-धनानि (चोदय) प्रेरय। (त्वम् अस्य) एतस्य दृश्यमानस्य (रायः) लौकिकस्य पारमार्थिकस्य च धनस्य (रथीः४) स्वामी। अत्र छन्दसीवनिपौ च वक्तव्यौ।’ अ० ५।२।१०९ अनेन मत्वर्थे रथशब्दाद् ईप्रत्ययः। ततश्च ङ्यन्ताभावाद् हल्ङ्याब्भ्यो०’ अ० ६।१।६८ इति सोर्लोपो न। (असि) वर्तसे। अतः (नः) अस्मभ्यम्, (तुचे) अस्माकं पुत्रपौत्राद्याय अपत्याय च। तुग् इत्यपत्यनाम। निघं० २।२। (तु५) क्षिप्रम् अवश्यं वा (गाधम्)६ तस्य पूर्वोक्तस्य धनस्य विलोडनम् अपरिमितोपलब्धिमिति भावः। गाहू विलोडने, घञ्, हकारस्य धकारश्छान्दसः। (विदाः) प्रापय। विद्लृ लाभे। लेटि मध्यमैकवचने लेटोऽडाटौ।’ अ० ३।४।९४ इत्याटि रूपम् ॥७॥
Essence
हे जगदीश्वर ! सर्वेषां प्राणिनां नक्षत्रग्रहोपग्रहादीनां च निवासकत्वात् त्वं वसुरुच्यसे। तादृशस्त्वं जगति दृश्यमानानां रजतहिरण्यमुक्ता-मणिहीरकादीनां, कन्दमूलफलादीनां, दुग्धदधिनवनीतादीनाम्, अहिंसासत्यास्तेयादीनां, शौचसन्तोषतपःस्वाध्यायादीनां, धर्मार्थकाम- मोक्षादीनां च धनानां परमोऽधिपतिरसि। त्वं कृपयास्मासु पुरुषार्थं निधेहि येन वयमपि तेषां भौतिकाध्यात्मिकानां धनानामधिपतयो भवितुं पारयेमहि ॥७॥
Subject
अथ परमेश्वरो धनं प्रार्थ्यते।