Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 409

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
स्वा꣣दो꣢रि꣣त्था꣡ वि꣢षू꣣व꣢तो꣣ म꣡धोः꣢ पिबन्ति गौ꣣꣬र्यः꣢꣯ । या꣡ इन्द्रे꣢꣯ण स꣣या꣡व꣢री꣣र्वृ꣢ष्णा꣣ म꣡द꣢न्ति शो꣣भ꣢था꣣ व꣢स्वी꣣र꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४०९॥

स्वा꣣दोः꣢ । इ꣣त्था꣢ । वि꣣षुव꣡तः꣢ । वि꣣ । सुव꣡तः꣢ । म꣡धोः꣢꣯ । पि꣣बन्ति । गौ꣡र्यः꣢꣯ । याः । इ꣡न्द्रे꣢꣯ण । स꣣या꣡व꣢रीः । स꣣ । या꣡व꣢꣯रीः । वृ꣡ष्णा꣢꣯ । म꣡द꣢꣯न्ति । शो꣣भ꣡था꣢ । व꣡स्वीः꣢꣯ । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥४०९॥

Mantra without Swara
स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः । या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥

स्वादोः । इत्था । विषुवतः । वि । सुवतः । मधोः । पिबन्ति । गौर्यः । याः । इन्द्रेण । सयावरीः । स । यावरीः । वृष्णा । मदन्ति । शोभथा । वस्वीः । अनु । स्वराज्यम् । स्व । राज्यम् ॥४०९॥

Samveda - Mantra Number : 409
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपक्षे। (गौर्यः) सात्त्विकचित्तवृत्तयः (इत्था) सत्यमेव (वि-सुवतः२) विशेषेण ब्रह्मानन्दम् अभिषुवतो जीवात्मनः सकाशात्। अत्र विपूर्वात् सुनोतेः शतरि सस्य षत्वे उकारस्य दीर्घश्छान्दसः। (स्वादोः) उत्कृष्टस्वादवतः (मधोः) मधुरस्य ब्रह्मानन्दरसस्य (पिबन्ति) पानं कुर्वन्ति। स्वादोः मधोः इत्यत्र द्वीतायार्थे षष्ठी। (वृष्णा) आनन्दवर्षकेण (इन्द्रेण) जीवात्मना (सयावरीः३) सयावर्यः, सहगमनाः (वस्वीः) निवासयित्र्यः (याः) सात्त्विकचित्तवृत्तयः (स्वराज्यम् अनु) आत्मिकस्वराज्यानुकूलाः सत्यः (शोभथा४) शोभितप्रकारेण (मदन्ति) हृष्यन्ति। वस्वीः, सयावरीः इत्यत्र जसि पूर्वसवर्णदीर्घः। ‘शोभथा’ इत्यत्र बाहुलकात् प्रकारार्थे थाल् प्रत्यये लित्स्वरः ॥ अथ द्वितीयः—राष्ट्रपक्षे। (गौर्यः५) उद्यमवत्यः सेनाः। गुरन्ते उद्यच्छन्तीति गौर्यः। गुरी उद्यमने तुदादिः। (इत्था) सत्यम् (वि-सुवतः) विशेषेण वीरतां प्रेरयतः सेनापतेः सकाशात् (स्वादोः) उत्कृष्टस्वादवतः (मधोः) मधुरस्य वीररसस्य (पिबन्ति) पानं कुर्वन्ति, (वृष्णा) शस्त्रास्त्रवर्षकेण (इन्द्रेण) शत्रुविदारकेण सेनापतिना (सयावरीः) युद्धे सह प्रयाणवत्यः, (वस्वीः) निजशौर्येण राष्ट्रस्य निवासिकाः (याः) सेनाः (स्वराज्यम् अनु) स्वराज्यम् अनुष्ठाप्य (शोभथा) शोभितप्रकारेण (मदन्ति) विजयेन हृष्यन्ति ॥१॥६ अत्र श्लेषालङ्कारः ॥१॥
Essence
यथा जीवात्मभिः परमात्मना सह योगं संस्थाप्य ब्रह्मानन्दं सुत्वा मनःप्राणेन्द्रियादिभिः सह स्वराज्यमर्चनीयम्, तथैव सेनाभिः शौर्यमर्जयित्वा शूरवीरेण सेनापतिना सहयोगं विधाय विजयं लब्ध्वा स्वराज्यं वर्धनीयम् ॥१॥
Subject
अथात्मिकं राष्ट्रियं च स्वराज्यमाकाङ्क्षते।
Footnote
१. ऋ० १।८४।१०, अथ० २०।१०९।१ उभयत्र ‘मधोः’, ‘शोभथा’ अनयोः स्थाने क्रमेण ‘मध्वः’, ‘शोभसे’ इति पाठः। साम० १००५। २. विषूवतः। प्रायशो भाष्यकृद्भिः व्याप्तार्थाद् विषु प्रातिपदिकाद् मतुबन्तमिदं व्याख्यातम्। ‘विषुशब्दः विष्लृ व्याप्तौ इत्यस्य व्याप्तिवचनः। व्याप्तिमतः’—इत वि०। व्याप्तिमतः—इति भ०। सर्वेषु यज्ञेषु व्याप्तियुक्तस्य—इति सा०। पदपाठे ‘वि-सुवतः’ इति विभज्य दर्शनाद् अस्माभिः पदपाठमनुसृत्य व्याख्यातम्। ऋग्वेदीयपदपाठे तु ‘विषुऽवतः’ इत्येव पठितम्, अतस्तत्र तद्व्याख्यानमुचितं भवितुमर्हति। ३. सयावरीः सहगन्त्र्यः। आतो मनिन् क्वनिब्वनिपश्च (पा० ३।२।७४) इति वनिप्। ‘वनो र च’ (पा० ४।१।७) इति स्त्रीप्रत्ययो रेफश्च नकारस्य—इति भ०। ४. शोभथा शोभनार्थम्—इति वि०। शोभथाः पुरुषव्यत्ययः, शोभन्ते—इति भ०, तत्तु चिन्त्यं पदकारविरोधात् स्वरविरोधाच्च। ५. शुभ्राः किरणा इव उद्यमयुक्ताः सेनाः—इति ऋ० १।८४।१० भाष्ये द०। ६. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमां ‘नहि स्वसेनापतिभिर्वीरसेनाभिश्च विना स्वराज्यस्य शोभारक्षणे भवितुं शक्ये’ इति विषये व्याख्यातवान्।