Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 408

1875 Mantra
Devata- इन्द्रः Rishi- सौभरि: काण्व: Chhand- ककुप् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
व꣣य꣢मु꣣ त्वा꣡म꣢पूर्व्य स्थू꣣रं꣢꣫ न कच्चि꣣द्भ꣡र꣢न्तोऽव꣣स्य꣡वः꣢ । व꣡ज्रि꣢ञ्चि꣣त्र꣡ꣳ ह꣢वामहे ॥४०८॥

व꣣य꣢म् । उ꣣ । त्वा꣢म् । अ꣣पूर्व्य । अ । पूर्व्य । स्थूर꣢म् । न । कत् । चि꣣त् । भ꣡र꣢꣯न्तः । अ꣣वस्य꣡वः꣢ । व꣡ज्रि꣢꣯न् । चि꣣त्र꣢म् । ह꣣वामहे ॥४०८॥

Mantra without Swara
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वज्रिञ्चित्रꣳ हवामहे ॥

वयम् । उ । त्वाम् । अपूर्व्य । अ । पूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः । वज्रिन् । चित्रम् । हवामहे ॥४०८॥

Samveda - Mantra Number : 408
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अपूर्व्य२) अपूर्वगुणकर्मस्वभाव, (वज्रिन्) शस्त्रधर इव दोषनाशक परमेश, आचार्य, भिषग् वा ! (कच्चित्) किमपि (स्थूरं३ न) स्थूलं विशालं गर्तादिकम् इव (स्थूरम्) स्थूलं मनश्चक्षुरादीनां छिद्रम् (भरन्तः) पूरयन्तः, पूरयितुमिच्छन्तः सन्तः, (अवस्यवः) त्वद्रक्षणेच्छवः (वयम् चित्रम्) चायनीयं पूज्यम् (त्वाम्) इन्द्रनामानं जगदीशम्, आचार्यं, भिषग्वरं वा (हवामहे) आह्वयामः ॥ उक्तं चान्यत्र “यन्मे॑ छि॒द्रं चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तृण्णं॒ बृह॒स्पति॑र्मे॒ तद्द॑धातु।” य–० ३६।२ इति ॥१०॥ अत्र श्लिष्टोपमालङ्कारः ॥१०॥
Essence
यथा विशालं निर्जलम् अन्धकूपादिकम् पूरयितुमिच्छन्तो जनाः सहायकं सखिवर्गम् आह्वयन्ति तथैव मनश्चक्षुरादीनां रोगरूपमशक्तिरूपं च विशालं छिद्रं पूरयितुं परमेश्वरस्य गुरोर्वैद्यस्य च साहाय्यं प्राप्तव्यम् ॥१०॥ अत्रेन्द्रस्य महत्त्ववर्णनात्, तत्स्तवनात्, तदाह्वानात्, ततो बलधनादिप्रार्थनाद्, इन्द्रनाम्ना नृपत्याचार्यवैद्यादीनां चापि कर्तव्यवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति ज्ञेयम् ॥ इति पञ्चमे प्रपाठके प्रथमार्द्धे द्वितीया दशतिः। इति चतुर्थेऽध्याये षष्ठः खण्डः ॥
Subject
अथ परमेश्वर आचार्यो भिषग् वाऽऽहूयते।
Footnote
१. ऋ० ८।२१।१, ऋषिः सोभरिः काण्वः। अ० २०।१४।१ ऋषिः सोभरिः। उभयत्र ‘वज्रिन्’ इत्यत्र ‘वाजे’ इति पाठः। साम० ७०८। २. अविद्यमानः पूर्वो यस्मात् सः अपूर्वः। अपूर्व एव अपूर्व्यः। स्वार्थिको य प्रत्ययः—इति वि०। ३. स्थूरं न कच्चित् स्थूलमिव किञ्चित् कुसूलादिकं यवादिभिः त्वां भरन्तः पूरयन्तः पूरयिष्यन्तः सोमेन—इति भ०। स्थूरं न यथा भरन्तो व्रीह्यादिभिः गृहं पूरयन्तो जनाः स्थूरं स्थूलं गुणाधिकं कच्चित् कञ्चिन्मानवं यथा ह्वयन्ति तद्वत्—इति सा०।