Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 405

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- ककुप् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्वं꣡ न꣢ इ꣣न्द्रा꣡ भ꣢र꣣ ओ꣡जो꣢ नृ꣣म्ण꣡ꣳ श꣢तक्रतो विचर्षणे । आ꣢ वी꣣रं꣡ पृ꣢तना꣣स꣡ह꣢म् ॥४०५॥

त्व꣢म् । नः꣣ । इन्द्र । आ꣢ । भ꣣र । ओ꣡जः꣢꣯ । नृ꣣म्ण꣢म् । श꣣तक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ꣢ । वी꣣र꣢म् । पृ꣣तनास꣡ह꣢म् । पृ꣣तना । स꣡ह꣢꣯म् ॥४०५॥

Mantra without Swara
त्वं न इन्द्रा भर ओजो नृम्णꣳ शतक्रतो विचर्षणे । आ वीरं पृतनासहम् ॥

त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ । वीरम् । पृतनासहम् । पृतना । सहम् ॥४०५॥

Samveda - Mantra Number : 405
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शतक्रतो) बहुप्रज्ञ बहुकर्मन् वा (विचर्षणे) विशेषेण द्रष्टः, विचर्षणिः इति पश्यतिकर्मसु पठितम्। निघं० ३।११। (इन्द्र) वीर परमैश्वर्यशालिन् जगदीश्वर राजन् वा ! (त्वम् नः) अस्मभ्यम् (ओजः) ब्रह्मवर्चसम् (नृम्णम्) धनं च। नृम्णमिति धननाम। निघं० २।१०। (आभर) आहर, किञ्च (पृतनासहम्) पृतनाः शत्रुसेनाः सहते पराजयते यस्तम् (वीरम्) विक्रमशालिनं योद्धारम् (आभर) आहर ॥७॥ अत्र अर्थश्लेषालङ्कारः ॥७॥
Essence
परमात्मकृपया राज्ञः प्रयत्नेन चास्माकं राष्ट्रे ब्रह्मवर्चस्विनो ब्राह्मणाः, शूराः क्षत्रियाः, धनवन्तो वैश्याश्चोत्पद्येरन्। किञ्च सर्वे प्रजाजना अपि बलवन्तो, धनवन्तः, वीरपुत्रवन्तश्च भवेयुः ॥७॥
Subject
अथेन्द्रनाम्ना परमात्मानं राजानं च प्रार्थयते।
Footnote
१. ऋ० ८।९८।१०, अथ० २०।१०८।१। उभयत्र ‘भर, पृतनासहम्’ एतयोः स्थाने क्रमेण ‘भरँ, पृतनाषहम्’ इति पाठः। साम० ११६९।