Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 404

1875 Mantra
Devata- मरुतः Rishi- सौभरि: काण्व: Chhand- ककुप् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
गा꣡व꣢श्चिद्घा समन्यवः सजा꣣꣬त्ये꣢꣯न म꣣रु꣢तः꣣ स꣡ब꣢न्धवः । रि꣣ह꣡ते꣢ क꣣कु꣡भो꣢ मि꣣थः꣢ ॥४०४॥

गा꣡वः꣢꣯ । चि꣣त् । घ । समन्यवः । स । मन्यवः । सजात्ये꣢꣯न । स꣣ । जात्ये꣢꣯न । म꣣रु꣡तः꣢ । स꣡ब꣢꣯न्धवः । स । ब꣣न्धवः । रिह꣡ते꣢ । क꣣कु꣡भः꣢ । मि꣣थः꣢ ॥४०४॥

Mantra without Swara
गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः । रिहते ककुभो मिथः ॥

गावः । चित् । घ । समन्यवः । स । मन्यवः । सजात्येन । स । जात्येन । मरुतः । सबन्धवः । स । बन्धवः । रिहते । ककुभः । मिथः ॥४०४॥

Samveda - Mantra Number : 404
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (समन्यवः) सतेजस्काः (गावः) स्तोतारो ब्राह्मणाः ! गौः इति स्तोतृनाम। निघं० ३।१६। (सजात्येन) सजातित्वेन (मरुतः२) क्षत्रियाः योद्धारो जनाः (चिद् घ) निश्चयेन (सबन्धवः) युष्माकं समानबन्धुत्वयुक्ताः सन्ति, ये क्षत्रियाः (मिथः) परस्परं मिलित्वा, युद्धे (ककुभः) दिशः (रिहते) आस्वादयन्ति, व्याप्नुवन्तीत्यर्थः। लिह आस्वादने, अदादिः, रलयोरभेदः।३ सर्वा दिशोऽभिव्याप्य शत्रुणा सह युद्ध्वा राष्ट्रं रक्षन्तीति भावः। यद्वा, ये क्षत्रियाः (मिथः) युष्माभिः ब्राह्मणैः सह मिलित्वा (ककुभः) ककुप्छन्दोबद्धाः इमाः प्रस्तुतायां दशतौ पठिताः ऋचः (रिहते) पाठेन अर्थानुसन्धानेन च आस्वादयन्ति ॥ प्रस्तुतायां दशतौ ककुब् उष्णिक् छन्दोऽस्ति, यत्र प्रथमतृतीयपादौ अष्टाक्षरौ मध्यस्थो द्वितीयः पादश्च द्वादशाक्षरो भवति ॥६॥४
Essence
स्तोतारो ब्राह्मणा रक्षकाः क्षत्रियाश्च उभयेऽपि राष्ट्रस्यानिवार्याण्यङ्गानि सन्ति। यथा ब्राह्मणा विद्यादानेन क्षत्रियानुपकुर्वन्ति तथा युद्धे समागते क्षत्रिया दिशोऽभिव्याप्य शत्रून् पराजित्य ब्राह्मणानुपकुर्वन्ति। तस्माद् ब्राह्मणैः क्षत्रियैश्च राष्ट्रे भ्रातृत्वेन वर्तितव्यम् ॥६॥
Subject
अथ मरुतो देवताः। मरुतां सबन्धुत्वमाह।
Footnote
१. ऋ० ८।२०।२१। २. माधवभरतस्वामिसायणैराधुनिकैश्च भाष्यकारैः स्वरमनादृत्य ‘मरुतः’ इति सम्बोधनान्तं व्याख्यातम्। वस्तुतस्तु ‘समन्यवः’ इत्यत्रैव ‘आमन्त्रितस्य च। अ० ८।१।१९’ इति सम्बुद्धिस्वरो निघातः परिदृश्यते। तद्विशेष्ये ‘गावः’ इत्यत्र पादादित्वात् षाष्ठेन आद्युदात्तः सम्बुद्धिस्वरः। अस्माभिर्यथास्वरमेव व्याख्यातम्। ऋग्वेदीयपाठे तु म॒रु॒तः॒ इति सम्बुद्धिस्वर एव। तत्र ‘म॒रु॒तः॒’ इति ‘रि॒ह॒ते॒’ इति च स्वरभेदेन पठ्यते। ३. वेदसंहितासु सर्वत्र रिह धातुरेव प्रयुक्तः, लिहस्तु रूपाणि न प्राप्यन्ते। ४. अथवा गवां वाचां मरुतां प्राणानां च सजात्येन समानशरीरव्यापित्वरूपसजातित्वेन सबन्धुत्वमस्यामृचि वर्ण्यते। वाचः प्राणाश्च परस्परमुपकृत्य दिग्व्यापिनः शब्दान् जनयन्ति। ५. अथवा इस ऋचा में ‘गावः’ से वाणियाँ तथा ‘मरुतः’ से प्राण अभिप्रेत हैं। वाणी और प्राण एक शरीर में व्याप्त होने रूप सजातीयता के कारण परस्पर बन्धु हैं। वे एक-दूसरे का उपकार करके दिशाव्यापी शब्दों को उत्पन्न करते हैं।