Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 402

1875 Mantra
Devata- इन्द्रः Rishi- सौभरि: काण्व: Chhand- ककुप् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣡ या꣢ह्य꣣य꣢꣫मिन्द꣣वे꣡ऽश्व꣢पते꣣ गो꣡प꣢त꣣ उ꣡र्व꣢रापते । सो꣡म꣢ꣳ सोमपते पिब ॥४०२॥

आ꣢ । या꣣हि । अय꣢म् । इ꣡न्द꣢꣯वे । अ꣡श्व꣢꣯पते । अ꣡श्व꣢꣯ । प꣣ते । गो꣡प꣢꣯ते । गो । प꣣ते । उ꣡र्व꣢꣯रापते । उ꣡र्व꣢꣯रा । प꣣ते । सो꣡म꣢꣯म् । सो꣣मपते । सोम । पते । पिब ॥४०२॥

Mantra without Swara
आ याह्ययमिन्दवेऽश्वपते गोपत उर्वरापते । सोमꣳ सोमपते पिब ॥

आ । याहि । अयम् । इन्दवे । अश्वपते । अश्व । पते । गोपते । गो । पते । उर्वरापते । उर्वरा । पते । सोमम् । सोमपते । सोम । पते । पिब ॥४०२॥

Samveda - Mantra Number : 402
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (अश्वपते) अश्वपशूनाम् अ्श्वनाम्ना ख्यातानाम् अग्निपर्जन्यादीनां२ वा अधीश्वर, (गोपते) गवां धेनूनाम् आदित्यकिरणानां वा अधीश्वर, (उर्वरापते) बहुसस्योत्पादनसमर्थानां भूमीनाम् अधीश्वर इन्द्र परमात्मन् ! (अयम्) एष त्वम् (इन्दवे) आनन्दरसप्रवाहाय (आयाहि) आगच्छ, हृदये प्रकटीभव। हे (सोमपते३) मम मनश्चन्द्रस्य अधीश्वर ! त्वम् (सोमम्) मदीयं श्रद्धारसम् (पिब) आस्वादय ॥ अथ द्वितीयः—जीवात्मपरः। हे (अश्वपते) शरीरस्थे नियुक्तानाम् इन्द्रियरूपाणामश्वानां स्वामिन् ! आत्मानं रथिनं विद्धि शरीरं रथमेव तु। इन्द्रियाणि हयानाहुः। कठ० ३।३,४। (गोपते) गवां वाचां प्राणानां वा स्वामिन् ! गौरिति वाङ्नाम। निघं० १।११। प्राणो हि गौः। श० ४।३।४।२५। (उर्वरापते) ऋद्धिसिद्ध्युत्पादनक्षमायाः बुद्धेः स्वामिन् मम अन्तरात्मन् ! (अयम्) एष त्वम् (इन्दवे) परमात्मोपासनाया आनन्दं प्राप्तुम् (आयाहि) सन्नद्धो भव। हे (सोमपते) सोमस्य मनसः स्वामिन् ! त्वम् (सोमम्) ब्रह्मानन्दरसम् (पिब) आस्वादय ॥४॥ अत्र श्लेषालङ्कारः, ‘पते’ इत्यस्यावृत्तौ लाटानुप्रासः, सोमावृत्तौ च यमकम् ॥४॥
Essence
यो जीवात्मा देहस्थान् मनोबुद्धिप्राणचक्षुःश्रोत्रादीन् ज्ञानकर्मादींश्चाधितिष्ठति तेन नित्यं जगदीश्वरोपासनया ब्रह्मानन्दरसोऽधिगन्तव्यः ॥४॥
Subject
अथेन्द्रनाम्ना परमात्मजीवात्मादीनाह्वयति।
Footnote
१. ऋ० ८।२१।३ ‘आ याह्ययमिन्दवे’ इत्यत्र ‘आयाहीम इन्दवो’ इति पाठः। २. ‘प्र नूनं जातवेदसमश्वं हिनोत वाजिनम्’ ऋ० १०।१८८।१; ‘प्र पिन्वत वृष्णो अश्वस्य धाराः’ ऋ० ५।८३।६ इति प्रामाण्याद् अग्निः पर्जन्यश्चाश्वो नाम। ३. अत्र चत्वारि पदानि सम्बोधनान्तानि। तेषु ‘सोमपते’ इत्यत्र ‘आमन्त्रितस्य च’ ८।१।१९ इति निघातः। ‘अश्वपते’ इत्यत्र पादादित्वान्न निघातः, किन्तु षाष्ठेन ‘आमन्त्रितस्य च’ ६।१।१९८ इत्यनेन आद्युदात्तत्वम्। ‘गोपते, उर्वरापते’ इत्यत्रापि ‘आमन्त्रितं पूर्वमविद्यमानवत्’ ८।१।७२ इति न्यायेन पदात्परत्वाभावान्न निघातः, किन्तु आद्युदात्तत्वमेव।