Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 401

1875 Mantra
Devata- मरुतः Rishi- सौभरि: काण्व: Chhand- ककुप् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣡ ग꣢न्ता꣣ मा꣡ रि꣢षण्यत꣣ प्र꣡स्था꣢वानो꣣ मा꣡प꣢ स्थात समन्यवः । दृ꣣ढा꣡ चि꣢द्यमयिष्णवः ॥४०१॥

आ꣢ । ग꣣न्ता । मा꣢ । रि꣣षण्यत । प्र꣡स्था꣢꣯वानः । प्र । स्था꣣वानः । मा꣢ । अ꣡प꣢꣯ । स्था꣣त । समन्यवः । स । मन्यवः । दृढा꣢ । चि꣣त् । यमयिष्णवः ॥४०१॥

Mantra without Swara
आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः । दृढा चिद्यमयिष्णवः ॥

आ । गन्ता । मा । रिषण्यत । प्रस्थावानः । प्र । स्थावानः । मा । अप । स्थात । समन्यवः । स । मन्यवः । दृढा । चित् । यमयिष्णवः ॥४०१॥

Samveda - Mantra Number : 401
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सैनिकपरः। उपस्थिते युद्धे राष्ट्रवीरा आहूयन्ते। हे (प्रस्थावानः) रणप्रस्थानकारिणः मरुतः वीराः सैनिकाः। प्र पूर्वात् तिष्ठतेः ‘आतो मनिन् क्वनिब्वनिपश्च। अ० ३।२।७४’ इति वनिप् प्रत्ययः। यूयम् (आ गन्त) आगच्छत शत्रुभिः योद्धुम्, अनागमनेन (मा रिषण्यत) स्वराष्ट्रस्य क्षतिं न कुरुत। ‘दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति। अ० ७।४।३६’ इति रिष्टस्य रिषण्भावो निपात्यते क्यचि परतः। हे (समन्यवः) मन्युयुक्ताः ! हे (दृढाचित्) दृढान्यपि रिपुदलानि (यमयिष्णवः) उपरमयितुं समर्था वीराः ! यूयम् (मा अपस्थात) नैव युद्धाद् दूरे तिष्ठत। दृढा इत्यत्र ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शसः शेर्लोपः। प्रस्थावानः, समन्यवः, यमयिष्णवः इति त्रीण्यपि सम्बोधनान्तानि पदानि। चरमयोर्द्वयोरामन्त्रितस्वरो निघातः सम्पद्यते, प्रथमस्य तु पादादित्वात् षाष्ठेन आद्युदात्तत्वम् ॥ अथ द्वितीयः—प्राणपरः। पूरककुम्भकरेचकादिविधिना प्राणायाममभ्यस्यन् योगसाधकः प्राणान् सम्बोधयन्नाह। हे (प्रस्थावानः) प्राणायामाय प्रस्थिताः मदीयाः प्राणाः ! यूयम् (आ गन्त) रेचकप्राणायामेन बहिर्गताः सन्तः पूरकविधिना पुनः आयात, (मा रिषण्यत) नैव स्वास्थ्यहानिं कुरुत। हे (समन्यवः) सतेजस्काः, हे (दृढा चित्) शरीरे दृढं बद्धान्यपि रोगमालिन्यादीनि (यमयिष्णवः) उपरमयितुं क्षमाः प्राणाः ! (मा अपस्थात) शरीराद् बहिरेव स्थिता न भवत, किन्तु पूरक-कुम्भक-रेचक-स्तम्भवृत्तिव्यापारद्वारेण मम प्राणसिद्धिं कारयत। वयं प्राणायामाद् विरता न भूत्वा नियमेन तदभ्यासद्वारा प्रकाशावरणक्षयं विधाय धारणासु मनसो योग्यतां सम्पादयेमेति भावः२ ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
राष्ट्रे शत्रुभिराक्रान्ते सति वीरैर्योद्धृभिः शत्रून् कान्दिशीकान् विद्राव्य धराशायिनो वा विधाय राष्ट्रस्य कीर्तिर्दिग्दिगन्तेषु विस्तारणीया। तथैव शरीरे रोगमालिन्यादिभिरुपद्रुते सति प्राणाः पूरककुम्भकादिक्रमेण शरीरस्य स्वास्थ्यं विस्तार्य दीर्घमायुः प्रतन्वन्तुतराम् ॥३॥
Subject
अथ मरुतो देवताः। तान् सम्बोधयन्नाह।
Footnote
१. ऋ० ८।२०।१ ‘दृढा चिद्यमयिष्णवः’ इत्यत्र ‘स्थिरा चिन्नमयिष्णवः’ इति पाठः। २. द्रष्टव्यम्—योग० २।४९-५३।