Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 400

1875 Mantra
Devata- इन्द्रः Rishi- सौभरि: काण्व: Chhand- ककुप् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
यो꣡ न꣢ इ꣣द꣡मि꣢दं पु꣣रा꣡ प्र वस्य꣢꣯ आनि꣣ना꣢य त꣡मु꣢ व स्तुषे । स꣡खा꣢य꣣ इ꣡न्द्र꣢मू꣣त꣡ये꣢ ॥४००॥

यः꣢ । नः꣢ । इद꣡मि꣢दम् । इ꣣द꣢म् । इ꣣दम् । पुरा꣢ । प्र । व꣡स्यः꣢꣯ । आ꣣नि꣡नाय꣢ । आ꣣ । निना꣡य꣢ । तम् । उ꣣ । वः । स्तुषे । स꣡खा꣢꣯यः । स । खा꣣यः । इ꣡न्द्र꣢꣯म् । ऊ꣣त꣡ये꣢ ॥४००॥

Mantra without Swara
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । सखाय इन्द्रमूतये ॥

यः । नः । इदमिदम् । इदम् । इदम् । पुरा । प्र । वस्यः । आनिनाय । आ । निनाय । तम् । उ । वः । स्तुषे । सखायः । स । खायः । इन्द्रम् । ऊतये ॥४००॥

Samveda - Mantra Number : 400
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) इन्द्रनामा जगदीश्वरः (पुरा) पूर्वं सृष्ट्यादौ (इदम्-इदम्) सर्वमेतद् अग्निसूर्यवायुविद्युत्पर्जन्यसरित्सागररजतहिरण्यादिकम् (वस्यः) वसीयः निवासकतरं वस्तुजातम्। वसु प्रातिपदिकाद् अतिशायने ईयसुनि छान्दस ईकारलोपः। (नः) अस्मभ्यं युष्मभ्यं च (प्र आनिनाय) प्रकर्षेण आनीतवान्। अत्र यद्वृत्तत्वान्निघाताभावः। (तम् उ) तमेव (इन्द्रम्) जगदीश्वरम्, हे (सखायः) सुहृदः ! अहम् (वः) युष्माकम् अस्माकं च (ऊतये) रक्षायै (स्तुषे) स्तौमि। ष्टुञ् धातोर्लेटि उत्तमैकवचने रूपमिदम् ॥२॥
Essence
अनेकेषां महार्घाणां पदार्थानां निःशुल्कमेव सर्वेभ्यः प्रदाता ब्रह्माण्डाधिपः परमेश्वरः सर्वैः कृतज्ञतयाऽऽराधनीयः ॥२॥
Subject
अथ परमेश्वरस्य दानशीलत्वं प्रतिपादयति।
Footnote
१. ऋ० ८।२१।९ ‘व स्तुषे’ इत्यत्र ‘वः स्तुषे’ इति पाठः। अथ० २०।१४।३; ६२।३