Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 40

1875 Mantra
Devata- अग्निः Rishi- प्रस्कण्वः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣢ग्ने꣣ वि꣡व꣢स्वदु꣣ष꣡स꣢श्चि꣣त्र꣡ꣳ राधो꣢꣯ अमर्त्य । आ꣢ दा꣣शु꣡षे꣢ जातवेदो वहा꣣ त्व꣢म꣣द्या꣢ दे꣣वा꣡ꣳ उ꣢ष꣣र्बु꣡धः꣢ ॥४०॥

अ꣡ग्ने꣢ । वि꣡व꣢꣯स्वत् । वि । व꣣स्वत् । उष꣡सः꣢ । चि꣣त्र꣢म् । रा꣡धः꣢꣯ । अ꣣मर्त्य । अ । मर्त्य । आ꣢ । दा꣣शु꣡षे꣢ । जा꣣तवेदः । जात । वेदः । वह । त्व꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । दे꣣वा꣢न् । उ꣣षर्बु꣡धः꣢ । उ꣣षः । बु꣡धः꣢꣯ ॥४०॥

Mantra without Swara
अग्ने विवस्वदुषसश्चित्रꣳ राधो अमर्त्य । आ दाशुषे जातवेदो वहा त्वमद्या देवाꣳ उषर्बुधः ॥

अग्ने । विवस्वत् । वि । वस्वत् । उषसः । चित्रम् । राधः । अमर्त्य । अ । मर्त्य । आ । दाशुषे । जातवेदः । जात । वेदः । वह । त्वम् । अद्य । अ । द्य । देवान् । उषर्बुधः । उषः । बुधः ॥४०॥

Samveda - Mantra Number : 40
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अमर्त्य) स्वरूपेण मरणधर्मरहित, (जातवेदः) सर्वज्ञ, सर्वव्यापक, ज्ञाननिधे (अग्ने) प्रकाशस्वरूप परमात्मन् ! (त्वम् अद्य) अस्मिन् दिने। संहितायां निपातस्य च। अ० ६।३।१३६ इति दीर्घः। (दाशुषे) धनधान्यविद्यादिदानकर्त्रे मह्यम्। दाशृ दाने, दाश्वान्साह्वान् मीढ्वांश्च।’ अ० ६।१।१२ इति क्वसुप्रत्ययान्तो निपातः। (उषसः) प्रभातदीप्तेः (चित्रम्) अद्भुतम् (विवस्वत्) अज्ञानदारिद्र्यादितमो- विवासनशीलम् (राधः२) ऋतरूपं ज्योतीरूपं वा धनम्। राध इति धननाम। निघं० २।१०। उषसो धनं च ऋतं ज्योतिर्वा, यथोक्तम् ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना। ऋ० १।१२३।१३, ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु। ऋ० १।१२४।३, ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती। ऋ० १।९२।४, ज्योति॑ष्कृणोति सू॒नरी॑। ऋ० ७।८१।१’ इति। किञ्च, (उषर्बुधः) ये उषसि स्वयं बुध्यन्ते, सुप्तान् बोधयन्ति च तान् (देवान्) उत्तमान् विदुषो दिव्य-गुणान् वा। संहितायां देवाँ उषर्बुधः इत्यत्र दीर्घादटि समानपादे।’ अ० ८।३।९ इति नकारस्य रुत्वम्, आतोऽटि नित्यम्।’ अ० ८।३।३ इत्यनुनासिकश्च। (आ वह) प्रापय। संहितायां (द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति (दीर्घः) ॥६॥३
Essence
सर्वे जना उषसि प्रबुध्यमानान् दिव्यगुणान् हृदि धारयन्तः, उषर्वद् रश्मिवन्तः प्राणवन्तो यज्ञवन्तः प्रबोधवन्तः सत्यवन्तश्च भूत्वा विदुषां सङ्गेन सदा जागरूकाः सदाचारिणो धर्मात्मानश्च भवेयुः ॥६॥
Subject
परमेश्वरोऽस्मभ्यं किं दद्यादित्याह।
Footnote
१. ऋ० १।४४।१, साम १७८०। २. उषसः उषःसम्बन्धि चित्रं चायनीयं दर्शनीयं राधः तेजः, राधयति प्रकाशयतीति—इति भ०। ३. ऋग्भाष्ये दयानन्दर्षिरस्य मन्त्रस्य भावार्थमेवमाह—“मनुष्यैरीश्वराज्ञापालनाय स्वपुरुषार्थेन परमेश्वरम् अनलसान् उत्तमान् विदुषश्चाश्रित्य चक्रवर्तिराज्यविद्याश्रीः प्राप्तव्या” इत्यादि।