Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 4

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣣ग्नि꣢र्वृ꣣त्रा꣡णि꣢ जङ्घनद्द्रविण꣣स्यु꣡र्वि꣢प꣣न्य꣡या꣢ । स꣡मि꣢द्धः शु꣣क्र꣡ आहु꣢꣯तः ॥४॥

अ꣣ग्निः꣢ । वृ꣣त्रा꣡णि꣢ । ज꣣ङ्घनत् । द्रविणस्युः꣢ । वि꣣पन्य꣡या꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । शुक्रः꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः ॥४॥

Mantra without Swara
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः ॥

अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया । समिद्धः । सम् । इद्धः । शुक्रः । आहुतः । आ । हुतः ॥४॥

Samveda - Mantra Number : 4
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(द्रविणस्युः) उपासकानां द्रविणः आध्यात्मिकं धनं बलं वा कामयमानः। द्रविणम् इति धननामसु बलनामसु च पठितम्। निघं० २।१०, २।९। एष शब्दः सकारान्तोऽपि वेदे प्रयुज्यते, यथा द्रविणोदाः इत्यत्र। द्रविणः परेषां कामयते इति द्रविणस्युः। छन्दसि परेच्छायामिति वक्तव्यम्। अ० ३।१।८ वा० इति परेच्छायां क्यच्। ‘क्याच्छन्दसि अ० ३।२।१७० इत्युप्रत्ययः। दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति। अ० ७।४।३६ इति सकारस्य रुत्वाभावो निपात्यते।३ (अग्निः) तेजोमयः परमात्मा (विपन्यया) विशेषस्तुत्या। पनतिरर्चतिकर्मा। निघं० ३।१४। पण व्यवहारे स्तुतौ च। (समिद्धः) संदीप्तः, शुक्रः ज्वलितः। शोचतिः ज्वलतिकर्मा। निघं० १।१६। (आहुतः) उपासकानाम् आत्माहुत्या परिपूजितः सन् (वृत्राणि) अध्यात्मप्रकाशाच्छादकानि पापानि। पाप्मा वै वृत्रः। श० ११।१।५।७। (जङ्घनत्) भृशं पुनः पुनर्हन्यात्। यङ्लुगन्ताद् हन्तेः लिङर्थे लेट् ॥४॥ श्लेषेण मन्त्रोऽयं यज्ञाग्निपक्षेऽपि योजनीयः ॥४॥
Essence
याज्ञिकैर्जनैर्हविर्भिराहुतः समिद्धो यज्ञाग्निर्यथा रोगादीन् नितरां विनाशयति तथा परमात्माग्निर्योगाभ्यासिभिर्जनैर्हार्दिकस्तुत्या हृदये भूयो भूयः संदीपितः प्राणेन्द्रियात्ममनोबुद्ध्यादिहविर्भिराहुतः संस्तेषां पापविचारान् सर्वथा निर्मूलयति ॥४॥
Subject
वृतः परमात्मा पापानि भृशं हन्यादिति प्रार्थ्यते।
Footnote
१. ऋग्वेदेऽयं मन्त्रो दयानन्दर्षिणा कलायन्त्राणां प्रेरणहेतुर्यानेषु वेगादिक्रियानिमित्तं यो भौतिकोऽग्निस्तत्पक्षे व्याख्यातः। २. ऋ० ६।१६।३४। य० ३३।९। साम० १३९६। दयानन्दर्षिणा अग्नि शब्दाद् ऋग्वेदे विद्युद्रूपोऽग्निः, यजुर्वेदे च सूर्यादिरूपोऽग्निर्गृहीतः। ३. द्रविणशब्दस्य, द्रविणस्भावो निपात्यते इति काशिकावृत्तिः। सायणोऽप्यत्र क्यचि सुगागम इत्याह। द्रविणं धनं, स्यु प्रत्ययो मतुबर्थे, द्रविणवानित्यर्थः। अथवा द्रविणं हविर्लक्षणं धनम् तदिच्छुः द्रविणस्युः हविष्काम इत्यर्थः इति विवरणकारः। द्रविणः धनम्, हविर्लक्षणं धनं कामयमानः। ....द्रविणः शब्दः सकारान्तश्च विद्यते इति भरतस्वामी। द्रविणस्युः द्रविणो धनमिच्छति द्रविणस्यति...हविर्लक्षणं धनमिच्छन् इति य० ३३।९ भाष्ये महीधरः। द्रविणस्युः आत्मनो द्रविण इच्छुः’ इति ऋ० ६।१६।३४ भाष्ये दयानन्दः। एवं भरतस्वामिमहीधरदयानन्दाः सकारान्तत्वेनैव व्याचख्युः।