Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 399

1875 Mantra
Devata- इन्द्रः Rishi- सौभरि: काण्व: Chhand- ककुप् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣भ्रातृव्यो꣢ अ꣣ना꣡ त्वमना꣢꣯पिरिन्द्र ज꣣नु꣡षा꣢ स꣣ना꣡द꣢सि । यु꣣धे꣡दा꣢पि꣣त्व꣡मि꣢च्छसे ॥३९९॥

अ꣣भ्रातृव्यः꣢ । अ꣣ । भ्रातृव्यः꣢ । अ꣣ना꣢ । त्वम् । अ꣡ना꣢꣯पिः । अन् । आ꣣पिः । इन्द्र । जनु꣡षा꣢ । स꣣ना꣡त् । अ꣣सि । युधा꣢ । इत् । आ꣣पित्व꣢म् । इ꣣च्छसे ॥३९९॥

Mantra without Swara
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । युधेदापित्वमिच्छसे ॥

अभ्रातृव्यः । अ । भ्रातृव्यः । अना । त्वम् । अनापिः । अन् । आपिः । इन्द्र । जनुषा । सनात् । असि । युधा । इत् । आपित्वम् । इच्छसे ॥३९९॥

Samveda - Mantra Number : 399
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जगदुत्पत्तिस्थितिप्रलयकर्तः परमात्मन् ! त्वम् (सनात्) सनातनकालात् (जनुषा) जन्मना, स्वभावतः इत्यर्थः (अभ्रातृव्यः) निःसपत्नः। ‘व्यन् सपत्ने। अ० ४।१।१४५’ इति भ्रातृशब्दात् सपत्नार्थे व्यन्। ततो नञ्बहुव्रीहौ ‘नञ्सुभ्याम्। अ० ६।२।१७२’ इत्युत्तरपदस्यान्तोदात्तत्वम्। (अना२) अनेतृकः। न विद्यते ना नेता कश्चिद् यस्य सः अना। नृ शब्देन नञ्बहुव्रीहौ ‘नद्यृतश्च। अ० ५।१।१५३’ इति कपि प्राप्ते ‘ऋतश्छन्दसि। अ० ५।१।१५८’ इति प्रतिषेधः। स्वरः पूर्ववत्। (अनापिः) अबन्धुश्च (असि) वर्तसे। अनापिः इति तत्पुरुषो, न बहुव्रीहिः। न आपिः अनापिः। तेनाव्ययपूर्वपदप्रकृतिस्वरः। बहुव्रीहौ तु पूर्ववदन्तोदात्तत्वं प्राप्येत। (युधा इत्) युद्धेनैव (आपित्वम्) बन्धुत्वम् (इच्छसे) कामयसे। आभ्यन्तरे बाह्ये च देवासुरसंग्रामे यो विजेता भवति तस्यैव त्वं बन्धुर्भवसि, न तु पुरुषार्थहीनस्य जनस्येति भावः। इषु इच्छायाम् छन्दस्यात्मनेपदेऽपि प्रयुज्यते३ ॥१॥ अत्र अना, मना, सना इत्यत्र वृत्त्यनुप्रासोऽलङ्कारः। ‘त्वम, त्वमि’ इत्यत्र छेकानुप्रासः ॥१॥
Essence
अशत्रुरनेतृको महान् जगदीश्वरः पुरुषार्थिनामेव बन्धुर्जायते न निष्कर्मणाम् ॥१॥
Subject
अथेन्द्रनाम्ना परमेश्वरस्य शत्रुरहितत्वादिकं प्रतिपाद्यते।
Footnote
१. ऋ० ८।२१।१३, अथ० २०।११४।१, साम० १३८९। २. अना। अनः प्राणः, तस्मात् तृतीयैकवचनस्य ‘सुपां सुलुक्०। ७।१।३९’ इति पूर्वसवर्णः। अना अनेन प्राणेन हेतुना—इति वि०। नेता यस्य नास्ति सोऽना, स्वयं सर्वस्य नेता—इति भ०। अनेतृकः—इति सा०। ३. अन्यत्रापि यथा—‘अन्यमिच्छस्व सुभगे पतिं मत्’ ऋ० १०।१०।१० इति।