Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 398

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिपदा विराडनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
पि꣢बा꣣ सो꣡म꣢मिन्द्र꣣ म꣡न्द꣢तु त्वा꣣ यं꣡ ते꣢ सु꣣षा꣡व꣢ हर्य꣣श्वा꣡द्रिः꣢ । सो꣣तु꣢र्बा꣣हु꣢भ्या꣣ꣳ सु꣡य꣢तो꣣ ना꣡र्वा꣢ ॥३९८॥

पि꣡ब꣢꣯ । सो꣡म꣢꣯म् । इ꣣न्द्र । म꣡न्द꣢꣯तु । त्वा꣣ । य꣢म् । ते꣣ । सुषा꣡व꣢ । ह꣣र्यश्व । हरि । अश्व । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ । सोतुः꣢ । बा꣣हु꣡भ्या꣢म् । सु꣡य꣢꣯तः । सु । य꣣तः । न꣢ । अ꣡र्वा꣢꣯ ॥३९८॥

Mantra without Swara
पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । सोतुर्बाहुभ्याꣳ सुयतो नार्वा ॥

पिब । सोमम् । इन्द्र । मन्दतु । त्वा । यम् । ते । सुषाव । हर्यश्व । हरि । अश्व । अद्रिः । अ । द्रिः । सोतुः । बाहुभ्याम् । सुयतः । सु । यतः । न । अर्वा ॥३९८॥

Samveda - Mantra Number : 398
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—राष्ट्रपरः। हे (हर्यश्व) हरयः वेगेन हर्तारः अश्वाः तुरगाः यस्य तादृश (इन्द्र) शत्रुविदारक सेनापते राजन् वा ! त्वम् (सोमम्) वीरताप्रदायकम् सोमौषधिरसम् (पिब) आस्वादय, स रसः (त्वा) त्वाम् (मन्दतु) हर्षयतु, (यम्) यं रसम् (सोतुः) रथचालकस्य। अत्र षू प्रेरणे धातुर्बोध्यः। (बाहुभ्याम्) दोर्भ्याम् (सुयतः) सुनियन्त्रितः (अर्वा न) घोटकः इव (सोतुः) अभिषवकर्तुः। अत्र षुञ् अभिषवे धातुः। (बाहुभ्याम्) बाहूपलक्षिताभ्यां हस्ताभ्याम् (सुयतः) सुगृहीतः (अद्रिः) ग्रावा (ते) तुभ्यम् (सुषाव) अभिषुतवान् ॥ अथ द्वितीयः—अध्यात्मपरः। हे (हर्यश्व) हरयः ज्ञानकर्माहरणशीलाः अश्वाः ज्ञानेन्द्रियकर्मेन्द्रियरूपाः यस्य तादृश (इन्द्र) मदीय अन्तरात्मन् ! त्वम् (सोमम्) ज्ञानरसं कर्मरसं च (पिब) आस्वादय, स ज्ञानरसः कर्मरसश्च (त्वा) त्वाम् (मन्दतु) आनन्दयतु, (यम्) ज्ञानकर्मरसम् (सोतुः) रथप्रेरकस्य सारथेः (बाहुभ्याम्) भुजाभ्याम् (सुयतः) सुनियन्त्रितः (अर्वा न) अश्वः इव (सुयतः) सुनियन्त्रितः (अद्रिः) न दीर्यते इति अद्रिः अजरं मनः। यावत्प्रलयं यावन्मुक्ति वा स्थूलशरीरे सूक्ष्मशरीरे वा तस्यावस्थानात्। (ते) तुभ्यम् (सुषाव) अभिषुतवान्। षुञ् स्नपनपीडनस्नानसुरासन्धानेषु, स्वादिः ॥८॥२ अत्र श्लिष्टोपमालङ्कारः श्लेषश्च ॥८॥
Essence
पुष्टिप्रदानां सोमाद्योषधीनां रसं पीत्वा राष्ट्राणां सैनिकाः सेनापतयो नृपतयश्च सुवीरा भूत्वा शत्रून् पराजयन्ताम्। तथैव राष्ट्रस्य सर्वे स्त्रीपुरुषा मनसो माध्यमेन ज्ञानेन्द्रियैरर्जितं ज्ञानरसं कर्मेन्द्रियैरर्जितं कर्मरसं च पीत्वा परमज्ञानिनः परमपुरुषार्थिनश्च सन्त ऐहिकपारलौकिकोत्कर्षं साध्नुवन्तु ॥८॥ अत्रेन्द्रस्य बलपराक्रमवर्णनात्, तत्सम्बद्धेभ्य आदित्येभ्यो दीर्घायुष्यप्राप्तेः रोगदुर्मत्यादेरपाकरणस्य च याचनात्, सोमपानायेन्द्राह्वानाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति वेद्यम् ॥ इति पञ्चमे प्रपाठके प्रथमार्द्धे प्रथमा दशतिः ॥ इति चतुर्थेऽध्याये पञ्चमः खण्डः ॥
Subject
अथ सोमपानायेन्द्र आहूयते।
Footnote
१. ऋ० ७।२२।१, अथ० २०।११७।१, साम० ९२७। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रेऽस्मिन् इन्द्रपदेन वैद्यमर्थं गृह्णाति—“हे भिषजो यूयं यथा वाजिनो तृणान्नजलादिकं संसेव्य पुष्टा भवन्ति, तथैव सोमं पीत्वा बलवन्तो भवत” इति तस्याशयः।