Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 397

1875 Mantra
Devata- आदित्याः Rishi- इरिम्बिठिः काण्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡पामी꣢꣯वा꣣म꣢प꣣ स्रि꣢ध꣣म꣡प꣢ सेधत दुर्म꣣ति꣢म् । आ꣡दि꣢त्यासो यु꣣यो꣡त꣢ना नो꣣ अ꣡ꣳह꣢सः ॥३९७॥

अ꣡प꣢꣯ । अ꣡मी꣢꣯वाम् । अ꣡प꣢ । स्रि꣡ध꣢꣯म् । अ꣡प꣢꣯ । से꣣धत । दुर्मति꣢म् । दुः꣣ । मति꣢म् । आ꣡दि꣢꣯त्यासः । आ । दि꣣त्यासः । युयो꣡त꣢न । यु꣣यो꣡त꣢ । न꣣ । नः । अँ꣡ह꣢꣯सः ॥३९७॥

Mantra without Swara
अपामीवामप स्रिधमप सेधत दुर्मतिम् । आदित्यासो युयोतना नो अꣳहसः ॥

अप । अमीवाम् । अप । स्रिधम् । अप । सेधत । दुर्मतिम् । दुः । मतिम् । आदित्यासः । आ । दित्यासः । युयोतन । युयोत । न । नः । अँहसः ॥३९७॥

Samveda - Mantra Number : 397
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (आदित्यासः) शरीरस्थाः प्राणाः, राष्ट्रस्थाः क्षत्रियाः राजपुरुषाः, आदित्यब्रह्मचारिणो वा ! त्यान् नु क्षत्रियाँ॒ अव॑ आदि॒त्यान् या॑चिषामहे। ऋ० ८।६७।१—इति श्रुतेः क्षत्रिया राजपुरुषा अपि आदित्या उच्यन्ते। यूयम् शरीरात् समाजाद् राष्ट्राच्च (अमीवाम्) रोगम्। अम रोगे चुरादिः। (अप) अपसेधत अपगमयत, (स्रिधम्२) हिंसावृत्तिं, शत्रुकृतां हिंसां, हिंसकं वा (अप) अपसेधत अपगमयत। (दुर्मतिम्) कुमतिं च (अपसेधत) अप गमयत। सेधतिः गतिकर्मा। निघं० २।१४। किञ्च (नः) अस्मान् (अंहसः) पापात् (युयोतन) पृथक्कुरुत। यु मिश्रणामिश्रणयोः अदादिः, लोटि मध्यमबहुवचने ‘बहुलं छन्दसि। अ० २।४।७६’ इति शपः श्लौ ‘युयुत’ इति प्राप्ते ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इति तस्य तनबादेशः। संहितायां दीर्घश्छान्दसः ॥७॥
Essence
प्राणायामेन, क्षत्रियाणां राजपुरुषाणां कर्तव्यपालनेन, आदित्यब्रह्मचारिणां प्रयत्नेन च राष्ट्राद् यथायोग्यं रोगा हिंसावृत्तयः शत्रुकृता हिंसोपद्रवादयः पापानि च दूरीकर्तुं शक्यन्ते ॥७॥
Subject
अथादित्या देवताः। ते कष्टादीनां निवारणाय प्रार्थ्यन्ते।
Footnote
१. ऋ० ८।१८।१०। २. सृधम् शोषयितारम् उद्वेगकरं सत्त्वादि—इति वि०। स्रिधं हिंसां शत्रुभिः क्रियमाणाम्। क्षयो वा स्रिक्—इति भ०। स्रिधं बाधकं शत्रुम्—इति सा०।