Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 396

1875 Mantra
Devata- इन्द्रः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
वे꣢त्था꣣ हि꣡ निरृ꣢꣯तीनां꣣ व꣡ज्र꣢हस्त परि꣣वृ꣡ज꣢म् । अ꣡ह꣢रहः शु꣣न्ध्युः꣡ प꣢रि꣣प꣡दा꣢मिव ॥३९६॥

वे꣡त्थ꣢꣯ । हि꣡ । नि꣡र्ऋ꣢꣯तीनाम् । निः । ऋ꣣तीनाम् । व꣡ज्र꣢꣯हस्त । व꣡ज्र꣢꣯ । ह꣣स्त । परिवृ꣡ज꣢म् । प꣣रि । वृ꣡ज꣢꣯म् । अ꣡ह꣢꣯रहः । अ꣡हः꣢꣯ । अ꣣हः । शुन्ध्युः꣢ । प꣣रिप꣡दा꣢म् । प꣣रि । प꣡दा꣢꣯म् । इ꣣व ॥३९६॥

Mantra without Swara
वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । अहरहः शुन्ध्युः परिपदामिव ॥

वेत्थ । हि । निर्ऋतीनाम् । निः । ऋतीनाम् । वज्रहस्त । वज्र । हस्त । परिवृजम् । परि । वृजम् । अहरहः । अहः । अहः । शुन्ध्युः । परिपदाम् । परि । पदाम् । इव ॥३९६॥

Samveda - Mantra Number : 396
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वज्रहस्त) शस्त्रास्त्रपाणे इन्द्र वीर राजन्, सेनापते वा, यद्वा शस्त्रास्त्रपाणिर्वीरपुरुष इव पापादिविघ्नदलनसामर्थ्ययुक्त पराक्रमशालिन् परमात्मन् ! (शुन्ध्युः) राष्ट्रस्य मनसो वा शोधकः त्वम् (निर्ऋतीनाम्) पाप्मनां, कुनीतीनां२, कृच्छ्रापत्तीनाम्, अकालमृत्यूनां, शत्रुसेनानां वा। निर्ऋतिः निरमणात्, ऋच्छतेः कृच्छ्रापत्तिरितरा इति यास्कः। निरु० २।८। पाप्मा वै निर्ऋतिः। श० ७।२।१।१, घोरा वै निर्ऋतिः। श० ७।२।१।१०। (अहरहः) दिने दिने (परिवृजम्) परिवर्जनम्, परिहारम् (वेत्थ हि) जानासि खलु, (शुन्ध्युः) शोधकः आदित्यः। शुन्ध्युरादित्यो भवति, शोधनात्। निरु० ४।१६। (अहरहः) दिने दिने (परिपदाम्३ इव) यथा परितः पद्यमानानाम् अन्धकाराणां रोगाणां वा परिहारं वेत्ति तद्वत् ॥६॥ अत्र श्लिष्टोपमालङ्कारः ॥६॥
Essence
यथा शोधकः सूर्यस्तमोजालरोगमालिन्यादीनि परिहरति तथा परमेश्वरः संसारात् पापकुनीतिकृच्छ्रापत्त्यादीन्यपहन्ति। तथैव नृपेण सेनापतिना च राष्ट्रात् पापकदाचारकृच्छ्रापत्त्यकालमरणशत्रुसेनादीनि प्रयत्नेन निवारणीयानि ॥६॥
Subject
अथ सूर्यदृष्टान्तेनेन्द्रस्य महिमानमाह।
Footnote
१. ऋ० ८।२४।२४, अथ० २०।६६।३। २. निर्ऋतिम् दुःखप्रदां कुनीतिम् इति ऋ० ६।७४।२ भाष्ये द०। ३. परीति सर्वतोभावे, पदिर्गत्यर्थः। सर्वतो गच्छन्तीति परिपदः, तेषां परिपदाम्। सर्वतो गन्तॄणां प्राणिनामित्यर्थः। एतदुक्तं भवति। यथा सर्वप्राणिनामादित्यः लोकपालत्वात् शुभाशुभप्रवृत्ती वेत्ति तद्वन्निर्ऋतिप्रवृत्तीनां वर्जनं वेत्थ—इतिवि०। अहरहः शुन्ध्युः आदित्यः परिपदामिव परितः पद्यमानानां रक्षसां मद्देहानामिव वर्जनम्—इति भ०। आदित्यः परिपदामिव परितः पद्यमानानां यजमानानां यद्वा परितः पततां पक्षिणां वर्जनं स्वस्थानत्यागम्—इति सा०।