Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 395

1875 Mantra
Devata- आदित्याः Rishi- इरिम्बिठिः काण्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
तु꣣चे꣡ तुना꣢꣯य꣣ त꣢꣫त्सु नो꣣ द्रा꣡घी꣢य꣣ आ꣡यु꣢र्जी꣣व꣡से꣢ । आ꣡दि꣢त्यासः समहसः कृ꣣णो꣡त꣢न ॥३९५॥

तु꣣चे꣢ । तु꣡ना꣢꣯य । तत् । सु । नः꣣ । द्रा꣡घी꣢꣯यः । आ꣡युः꣢꣯ । जी꣣व꣡से꣢ । आ꣡दि꣢꣯त्यासः । आ । दि꣣त्यासः । समहसः । स । महसः कृणो꣡त꣢न । कृ꣣णो꣡त꣢ । न꣣ ॥३९५॥

Mantra without Swara
तुचे तुनाय तत्सु नो द्राघीय आयुर्जीवसे । आदित्यासः समहसः कृणोतन ॥

तुचे । तुनाय । तत् । सु । नः । द्राघीयः । आयुः । जीवसे । आदित्यासः । आ । दित्यासः । समहसः । स । महसः कृणोतन । कृणोत । न ॥३९५॥

Samveda - Mantra Number : 395
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (समहसः) सतेजसः (आदित्यासः) आदित्यवज्ज्ञानप्रकाशेन भासमानाः ब्रह्मविदो ब्राह्मणाः, मदीयाः प्राणाः वा ! एते खलु वादित्या यद् ब्राह्मणाः। तै० ब्रा० १।१।९।८। प्राणा वा आदित्याः। जै० उ० ब्रा० ४।२।९। यूयम् (तुचे) अपत्याय, तुक् इत्यपत्यनाम। निघं० २।२। (तुनाय२) धनाय। तना इति धननामसु पठितम्। निघं० २।१०। अत्र अकारस्य उकारादेशश्छान्दसः। (जीवसे) उत्कृष्टजीवनाय च। जीव धातोः ‘तुमर्थे सेसेनसेअसेन्०। अ० ३।४।९’ इति तुमर्थे असे प्रत्ययः। (तत्) इतरप्राणिविशिष्टत्वेन प्रसिद्धम् (नः आयुः) अस्माकम् आयुष्यम् (द्राघीयः) दीर्घतरम् (सुकृणोतन) सुचारुरूपेण कुरुत। कृवि हिंसाकरणयोर्लोटि मध्यमबहुवचने ‘कृणुत’ इति प्राप्ते ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इति तस्य तनबादेशः३, तस्य च पित्त्वान्ङित्त्वाभावे गुणः ॥ अपत्यं तु द्विविधं, भौतिकं मानसं च। भौतिकं पुत्रदुहित्रादिरूपं, मानसं च नूतनज्ञानविज्ञानादिरूपम्। धनमपि द्विविधं, भौतिकम् आध्यात्मिकं च। रजतसुवर्णवस्त्रधान्यमुद्रादिरूपं भौतिकम्, अहिंसासत्यन्याययोगसिद्ध्यादिरूपं चाध्यात्मिकम्। उत्कृष्टजीवनमपि द्विविधं, बाह्यम् अध्यात्मं च। भौतिकसुखसम्पदादिपूर्णं बाह्यम्, अध्यात्मपथपथिकत्वरूपं च अध्यात्मम्। तदेतत्सर्वं सुलभमस्माकं स्यादित्येतदर्थं दीर्घतरम् आयुः प्रार्थ्यते ॥५॥ अत्र ‘तुना, तन’ इति छेकानुप्रासोऽलङ्कारः। तकार-सकार-नकाराणां पृथक्-पृथग् असकृदावृत्तौ च वृत्त्यनुप्रासः ॥५॥
Essence
प्राणायामेन, विपश्चिद्भिर्ब्राह्मणैरुपदिष्टस्य पथोऽनुसरणेन चास्माकमायुर्द्राघीयो भवितुमर्हति। दीर्घतरमायुष्यं प्राप्य यथारुचि प्रेयोमार्गे श्रेयोमार्गे वाऽस्माभिः पदं निधेयम् ॥५॥
Subject
अथादित्या देवताः। अत्र दीर्घतरमायुः प्रार्थ्यते।
Footnote
१. ऋ० ८।१८।१८ ‘तुनाय’ इत्यत्र ‘तनाय’ इति पाठः। २. तुना इति तु धननाम, तस्मादियं तादर्थ्ये चतुर्थी। धनस्य चार्थायेत्यर्थः—इति वि०। तनोतेस्तुनः पौत्रः, तुनाय पौत्राय—इति भ०। तनोति कुलमिति तुनः पौत्रः। उकारोपजनश्छान्दसः। अत एव बह्वृचाः ‘तनाय’ इति पठन्ति—इति सा०। ३. इदं पाणिन्यभिप्रायेण प्रोक्तम्। यास्कमते तु नकार उपजनः, यथा स प्राह—‘कुरुतन’ इत्यनर्थका उपजना भवन्ति, कर्त्तन, हन्तन, यातन इति (निरु० ४।७)। पदकारस्यापि तदेवाभिप्रेतम्, यतोऽसौ ‘युयोत न’ इत्यवग्रहं प्रदर्शयति।