Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 394

1875 Mantra
Devata- इन्द्रः Rishi- पर्वतः काण्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡ इ꣢न्द्र सोम꣣पा꣡त꣢मो꣣ म꣡दः꣢ शविष्ठ꣣ चे꣡त꣢ति । ये꣢ना꣣ ह꣢ꣳसि न्या꣢꣯३꣱त्रिणं त꣡मी꣢महे ॥३९४॥

यः꣢ । इ꣣न्द्र । सोमपा꣡त꣢मः । सो꣣म । पा꣡त꣢꣯मः । म꣡दः꣢꣯ । श꣣विष्ठ । चे꣡त꣢꣯ति । ये꣡न꣢꣯ । हँ꣡सि꣢꣯ । नि । अ꣣त्रि꣡ण꣢म् । तम् । ई꣣महे ॥३९४॥

Mantra without Swara
य इन्द्र सोमपातमो मदः शविष्ठ चेतति । येना हꣳसि न्या३त्रिणं तमीमहे ॥

यः । इन्द्र । सोमपातमः । सोम । पातमः । मदः । शविष्ठ । चेतति । येन । हँसि । नि । अत्रिणम् । तम् । ईमहे ॥३९४॥

Samveda - Mantra Number : 394
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शविष्ठ) बलिष्ठ, (इन्द्र) शत्रुविदारक परमात्मन्, जीवात्मन्, सेनाध्यक्ष वा ! (यः) यस्त्वम् (सोमपातमः) अतिशयेन वीररसरूपस्य सोमस्य पाता असि, तस्य ते (मदः) वीरताजनितः हर्षः (चेतति) सदैव जागर्ति। (येन) पराक्रमेण, त्वम्। संहितायां ‘येना’ इति दीर्घश्छान्दसः, ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति वचनात्। (अत्रिणम्) भक्षकं शत्रुम्। अत्तीति अत्री। अद भक्षणे धातोः ‘अदेस्त्रिनिश्च। उ० ४।६९’ इति त्रिनिः प्रत्ययः। अत्रिणो वै रक्षांसि। पाप्मानोऽत्रिणः। ष० ब्रा० ३।१। (निहंसि) निःशेषेण विनाशयसि, (तम्) तं ते पराक्रमम्, वयमपि (ईमहे) प्रार्थयामहे। ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९ ॥४॥ अत्र अर्थश्लेषालङ्कारः ॥४॥
Essence
यथा वीरः परमात्मा जीवात्मा च वीररसेन हृष्टः सन् सर्वान् कामक्रोधादिरूपान्, विघ्नरूपान्, पापरूपांश्च भक्षकान् राक्षसान् विनाशयति, तथैव राष्ट्रे वीरः सेनापतिः सर्वानाक्रान्तॄन् रिपून् स्वपराक्रमेण दण्डयेत्। तादृशो वीररसः पराक्रमश्च सर्वैः प्रजाजनैरपि प्राप्तव्यः ॥४॥
Subject
अथेन्द्रनाम्ना परमात्मानं जीवात्मानं सेनाध्यक्षं च सम्बोधयति।
Footnote
१. ऋ० ८।१२।१, अथ० २०।६३।७।