Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 393

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ए꣡न्द्र꣢ नो गधि प्रिय꣣ स꣡त्रा꣢जिदगोह्य । गि꣣रि꣢꣫र्न वि꣣श्व꣡तः꣢ पृ꣣थुः꣡ पति꣢꣯र्दि꣣वः꣢ ॥३९३॥

आ । इ꣣न्द्र । नः । गधि । प्रिय । स꣡त्रा꣢꣯जित् । स꣡त्रा꣢꣯ । जि꣣त् । अगोह्य । अ । गोह्य । गिरिः꣢ । न । वि꣣श्व꣡तः꣢ । पृ꣣थुः꣢ । प꣡तिः꣢꣯ । दि꣣वः꣢ ॥३९३॥

Mantra without Swara
एन्द्र नो गधि प्रिय सत्राजिदगोह्य । गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥

आ । इन्द्र । नः । गधि । प्रिय । सत्राजित् । सत्रा । जित् । अगोह्य । अ । गोह्य । गिरिः । न । विश्वतः । पृथुः । पतिः । दिवः ॥३९३॥

Samveda - Mantra Number : 393
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (प्रिय) स्नेहास्पद, (सत्राजित्) सत्येनासत्यस्य विजेतः ! सत्रा इति सत्यनाम। निघं० ३।१०। (अगोह्य) गूहितुम् अशक्य (इन्द्र) परमात्मन् ! त्वम् (नः) अस्मान्, अस्मत्समीपम् (आ गधि) आगहि, आयाहि। ‘आगहि’ इति रूपं वेदे बहुशः प्रयुज्यते, अत्र हेर्धिभावः। त्वम् (गिरिः न) पर्वतः इव (विश्वतः पृथुः) सर्वतो विस्तीर्णः असि, (दिवः पतिः) सूर्यचन्द्रनक्षत्रविद्युदादिभिर्द्योतमानस्य जगतः अधीश्वरः असि ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
चर्मचक्षुर्भ्यामदृश्योऽपि जगदीश्वरः संसारे दृश्यमानैः स्वकीयैः सत्यनियमैर्योगाभ्यासैश्च सर्वेषां प्रकटो जायते। गगनचुम्बिविस्तीर्णशैल इव विशालः सर्वव्यापकः समस्तानां ज्योतिष्मतां पदार्थानां ज्योतिष्प्रदायकः स सर्वैर्जनैरुपासनीयः ॥३॥
Subject
अथ पुनः परमात्मनो महिमा वर्ण्यते।
Footnote
१. ऋ० ८।९८।४, अथ० २०।६४।१। उभयत्र ‘प्रियः सत्राजिदगोह्यः’ इति पाठः। साम० १२४७।