Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 392

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣢स्य꣣ त्य꣡च्छम्ब꣢꣯रं꣣ म꣢दे꣣ दि꣡वो꣢दासाय र꣣न्ध꣡य꣢न् । अ꣣य꣡ꣳ स सोम꣢꣯ इन्द्र ते सु꣣तः꣡ पिब꣢꣯ ॥३९२॥

य꣡स्य꣢꣯ । त्यत् । शं꣡ब꣢꣯रम् । शम् । ब꣣रम् । म꣡दे꣢ । दि꣡वो꣢꣯दासाय । दि꣡वः꣢꣯ । दा꣣साय । रन्ध꣡य꣢न् । अ꣣य꣢म् । सः । सो꣡मः꣢ । इ꣣न्द्र । ते । सुतः꣢ । पि꣡ब꣢꣯ ॥३९२॥

Mantra without Swara
यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् । अयꣳ स सोम इन्द्र ते सुतः पिब ॥

यस्य । त्यत् । शंबरम् । शम् । बरम् । मदे । दिवोदासाय । दिवः । दासाय । रन्धयन् । अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥३९२॥

Samveda - Mantra Number : 392
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विघ्नविदारक परमात्मन् ! (यस्य) पुरुषार्थमिश्रितस्य भक्तिरूपस्य सोमरसस्य (मदे) हर्षे (दिवोदासाय२) मनआदिभ्यः दिवः प्रकाशस्य दात्रे जीवात्मने, तत्साहाय्यार्थमिति भावः। दासृ दाने, भ्वादिः। ‘दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः। अ० ६।३।२१’ वा० इति षष्ठ्या अलुक्। ‘आद्युदात्तप्रकरणे दिवोदासादीनामुपसंख्यानम्। अ० ६।२।९१’ वा० इत्याद्युदात्तः। त्वम् (शम्बरम्३) शम् आनन्दम् शान्तिं च वारयति आच्छादयतीति शम्बरः। वबयोरभेदात् शम्वर एव शम्बरः तम्, योगमार्गे समागतं विघ्नसमूहम् (रन्धयन्) विनाशयन्। रध हिंसासंराध्योः, दिवादिः। णिजन्ताच्छतरि, ‘रधिजभोरचि। अ० ७।१।६१’ इति नुम्। (त्यत्४) तत् प्रसिद्धं वीरकर्म करोषि, (अयं सः) एष सः (सोमः) पुरुषार्थमिश्रितः भक्तिरसः (ते) तुभ्यम् (सुतः) अभिषुतोऽस्ति, तम् (पिब) आस्वादय ॥२॥ ५
Essence
पुरुषार्थपूर्णया भक्त्याऽऽराधितः परमेश्वरो योगसाधकस्य मार्गे समागतान् सर्वान् प्रत्यूहान् निराकृत्य योगसिद्धिं प्रयच्छति ॥२॥
Subject
अथ परमात्मनो वीरकर्म प्रशंसन् तमाह्वयति।
Footnote
१. ऋ० ६।४३।१ ‘रन्धयन्’ इत्यत्र ‘रन्धयः’ इति पाठः। २. विज्ञानप्रदाय (धार्मिकाय जनाय) इति ऋ० ६।४३।१ भाष्ये द०। दिवोदासनाम्नः राज्ञः अर्थाय—इति वि०। दिवोदासाय ऋषये—इति भ०। दिवोदासाय राज्ञे—इति सा०। एवमैतिहासिकपक्षस्य कल्पनोपजीवित्वं स्पष्टम्। ३. यद्यपि ‘शम्ब सम्बन्धने’ धातोर्बाहुलकाद् अरन् प्रत्यये कृतेऽपि शब्दोऽयं सिध्यति, तथापि पदपाठे ‘शम् वरम्’ इति विच्छेदात् शम् पूर्वाद् वृञ् धातोरस्माभिर्निष्पादितः। ४. नपुंसकलिङ्गं व्यत्ययेन पुंल्लिङ्गस्य स्थाने द्रष्टव्यम्। तं शम्बरं नामासुरम्—इति वि०। त्यत् तत् प्रसिद्धं पूर्भेदनादिकर्म अकार्षीः शम्बरम् असुरं दिवोदासाय ऋषये रन्धयन्—अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य। शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥ ऋ० ४।२६।३ इति हि निगमः—इति भ०। त्यदिति क्रियाविशेषणम्, तत् प्रसिद्धं यथा भवति तथा—इति सा०। ५. दयानन्दर्षिर्ऋग्भाष्ये मन्त्रमिमं “हे राजादयो जनाः, यूयं धार्मिकाणां पीडकान् जनान् यथावद् दण्डयत, वैद्यकशास्त्रोक्तरीत्या महौषधिरसं निष्पाद्य संसेव्यारोगा भूत्वा सर्वाः प्रजा अरोगाः कुरुत” इति विषये व्याख्यातवान्।